अ अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम् च् इषं स्तोतृभ्य आ भर
अ त्वं राजेव सुव्रतो गिरः सोमाविवेशिथ च् पुनानो वह्ने अद्भुत
अ स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः च् सोमश्चमूषु सीदति
अ क्रीडुर्मखो न मंहयुः पवित्रं सोम गच्छसि च् दधत्स्तोत्रे सुवीर्यम्
अ यवंयवं नो अन्धसा पुष्टंपुष्टं परि स्रव च् विश्वा च सोम सौभगा
अ इन्दो यथा तव स्तवो यथा ते जातमन्धसः च् नि बर्हिषि प्रिये सदः
अ उत नो गोविदश्ववित्पवस्व सोमान्धसा च् मक्षूतमेभिरहभिः
अ यो जिनाति न जीयते हन्ति शत्रुमभीत्य च् स पवस्व सहस्रजित्
अ यास्ते धारा मधुश्चुतो ऽसृग्रमिन्द ऊतये च् ताभिः पवित्रमासदः
अ सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया च् सीदन्नृतस्य योनिमा
अ त्वं सोम परि स्रव स्वादिष्ठो अङ्गिरोभ्यः च् वरिवोविद्धृतं पयः
अ तव श्रियो वर्ष्यस्येव विद्युतोग्नेश्चिकित्र उषसामिवेतयः च् यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि
अ वातोपजूत इषितो वशां अनु तृषु यदन्ना वेविषद्वितिष्ठसे च् आ ते यतन्ते रथ्यो यथा पृथक्शर्धांस्यग्ने अजरस्य धक्षतः
अ मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतरं मतिम् च् त्वामर्भस्य हविषः समानमित्तवां महो वृणते नान्यं त्वत्
अ पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण च् मित्र वंसि वां सुमतिम्
अ ता वां सम्यगद्रुह्वाणेषमश्याम धाम च च् वयं वां मित्रा स्याम
अ पातं नो मित्रा पायुभिरुत त्रायेथां सुत्रात्रा च् साह्याम दस्यूं तनूभिः
अ उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः च् सोममिन्द्र चमूसुतम्
अ अनु त्वा रोदसी उभे च् इन्द्र यद्दस्युहाभवः
अ वाचमष्टापदीमहं नवस्रक्तिमृतावृधम् च् इन्द्रात्परितन्वं ममे
अ इन्द्राग्नी युवामिमे ऽभि स्तोमा अनूषत च् पिबतं शम्भुवा सुतम्
अ या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा च् इन्द्राग्नी ताभिरा गतम्
अ ताभिरा गच्छतं नरोपेदं सवनं सुतम् च् इन्द्राग्नी सोमपीतये
अ अर्षा सोम द्युमत्तमो ऽभि द्रोणानि रोरुवत् च् सीदन्योनौ योनेष्वा
अ अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः च् सोमा अर्षन्तु विष्णवे
अ इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः च् आ पवस्व सहस्रिणम्
अ सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् च् अश्वयेव हरिता याति धारया मन्द्रया याति धारया
अ अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः च् समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते
अ यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु च् तन्नः पुनान आ भर
अ वृषा पुनान आयुंषि स्तनयन्नधि बर्हिषि च् हरिः सन्योनिमासदः