अ इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन च् सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः
अ इन्द्र जुषस्व प्र वहा याहि शूर हरिह च् पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय
अ इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न च् अस्य सुतस्य स्वार्नोप त्वा मदाः सुवाचो अस्थुः
अ इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न च् बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य
तृतीय द्वितीयो ऽर्धः अ गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः च् त्वं सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते
अ त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि च् स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे
अ ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः च् तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः
अ पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत च् सूर्यस्येव न रश्मयः
अ केतुं कृण्वं दिवस्परि विश्वा रूपाभ्यर्षसि च् समुद्रः सोम पिन्वसे
अ जज्ञानो वाचमिष्यसि पवमान विधर्मणि च् क्रन्दं देवो न सूर्यः
अ प्र सोमासो अधन्विषुः पवमानास इन्दवः च् श्रीणाना अप्सु वृञ्जते
अ अभि गावो अधन्विषुरापो न प्रवता यतीः च् पुनाना इन्द्रमाशत
अ प्र पवमान धन्वसि सोमेन्द्राय मादनः च् नृभिर्यतो वि नीयसे
अ इन्दो यदद्रिभिः सुतः पवित्रं परिदीयसे च् अरमिन्द्रस्य धाम्ने
अ त्वं सोम नृमादनः पवस्व चर्षणीधृतिः च् सस्निर्यो अनुमाद्यः
अ पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः च् शुचिः पावको अद्भुतः
अ शुचिः पावक उच्यते सोमः सुतः स मधुमान् च् देवावीरघशंसहा
अ प्र कविर्देववीतये ऽव्या वारेभिरव्यत च् साह्वान्विश्वा अभि स्पृधः
अ स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति च् पवमानः सहस्रिणम्
अ परि विश्वानि चेतसा मृज्यसे पवसे मती च् स नः सोम श्रवो विदः
अ अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम् च् इषं स्तोतृभ्य आ भर
अ त्वं राजेव सुव्रतो गिरः सोमाविवेशिथ च् पुनानो वह्ने अद्भुत
अ स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः च् सोमश्चमूषु सीदति
अ क्रीडुर्मखो न मंहयुः पवित्रं सोम गच्छसि च् दधत्स्तोत्रे सुवीर्यम्
अ यवंयवं नो अन्धसा पुष्टंपुष्टं परि स्रव च् विश्वा च सोम सौभगा
अ इन्दो यथा तव स्तवो यथा ते जातमन्धसः च् नि बर्हिषि प्रिये सदः
अ उत नो गोविदश्ववित्पवस्व सोमान्धसा च् मक्षूतमेभिरहभिः
अ यो जिनाति न जीयते हन्ति शत्रुमभीत्य च् स पवस्व सहस्रजित्
अ यास्ते धारा मधुश्चुतो ऽसृग्रमिन्द ऊतये च् ताभिः पवित्रमासदः
अ सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया च् सीदन्नृतस्य योनिमा