अ नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे च् सुदीतयो वो अद्रुहो ऽपि कर्णे तरस्विनः समृक्वभिः
अ समु रेभसो अस्वरन्निन्द्रं सोमस्य पीतये च् स्वःपतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः
अ यो राजा चर्षणीनां याता रथेभिरध्रिगुः च् विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे
अ इन्द्रं तं शुम्भ्य पुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि च् हस्तेन वज्रः प्रति धायि दर्शतो महां देवो न सूर्यः
अ परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः च् स्वानैर्याति कविक्रतुः
अ स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् च् महान्मही ऋतावृधा
अ प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः च् वीत्यर्ष पनिष्टये
अ त्वं ह्यांङ्ग दैव्या पवमान जनिमानि द्युमत्तमः च् अमृतत्वाय घोषयन्
अ येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे च् देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत
अ सोमः पुनान ऊर्मिणाव्यं वारं वि धावति च् अग्रे वाचः पवमानः कनिक्रदत्
अ धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविम् च् अभि त्रिपृष्ठं मतयः समस्वरन्
अ असर्जि कलशां अभि मीढ्वान्त्सप्तिर्न वाजयुः च् पुनानो वाचं जनयन्नसिष्यदत्
अ सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः च् जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः
अ ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषोमृगाणाम् च् श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्
अ प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः च् अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन्
अ अग्निं वो वृधन्तमध्वराणां पुरूतमम् च् अच्छा नप्त्रे सहस्वते
अ अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या च् अस्य क्रत्वा यशस्वतः
अ अयं विश्वा अभि श्रियो ऽग्निर्देवेषु पत्यते च् आ वाजैरुप नो गमत्
अ इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् च् शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने
अ न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे च् न किष्ट्वानु मज्मना न किः स्वश्व आनशे
अ इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन च् सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः
अ इन्द्र जुषस्व प्र वहा याहि शूर हरिह च् पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय
अ इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न च् अस्य सुतस्य स्वार्नोप त्वा मदाः सुवाचो अस्थुः
अ इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न च् बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य
तृतीय द्वितीयो ऽर्धः अ गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः च् त्वं सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते
अ त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि च् स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे
अ ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः च् तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः
अ पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत च् सूर्यस्येव न रश्मयः
अ केतुं कृण्वं दिवस्परि विश्वा रूपाभ्यर्षसि च् समुद्रः सोम पिन्वसे
अ जज्ञानो वाचमिष्यसि पवमान विधर्मणि च् क्रन्दं देवो न सूर्यः