अ सुत एति पवित्र आ त्विषिं दधान ओजसा च् विचक्षाणो विरोचयन्
अ आविवासन्परावतो अथो अर्वावतः सुतः च् इन्द्राय सिच्यते मधु
अ समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः च् इन्दुमिन्द्राय पीतये
अ हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् च् महामिन्दुं महीयुवः
अ पवमान रुचारुचा देवो देवेभ्यः सुतः च् विश्वा वसून्या विश
अ आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः च् इषे पवस्व संयतम्
अ जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे च् घृतप्रतीको बृहता दिविस्पृषा द्युमद्वि भाति भरतेभ्यः शुचिः
अ त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने च् स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः
अ यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते च् इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः
अ अयं वां मित्रावरुणा सुतः सोम ऋतावृधा च् ममेदिह श्रुतं हवम्
अ राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे च् सहस्रस्थूण आशाते
अ ता सम्राजा घृतासुती आदित्या दानुनस्पती च् सचेते अनवह्वरम्
अ इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः च् जघान नवतीर्नव
अ इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् च् तद्विदच्छर्यणावति
अ अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् च् इत्था चन्द्रमसो गृहे
अ इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः च् अभ्राद्वृष्टिरिवाजनि
अ शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः च् ईशाना पिप्यतं धियः
अ मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये च् मा नो रीरधतं निदे
अ पवस्व दक्षसाधनो देवेभ्यः पीतये हरे च् मरुद्भ्यो वायवे मदः
अ सं देवैः शोभते वृषा कविर्योनावधि प्रियः च् पवमानो अदाभ्यः
अ पवमान धिया हितो ऽभि योनिं कनिक्रदत् च् धर्मणा वायुमारुहः
अ तवाहं सोम रारण सख्य इन्दो दिवेदिवे च् पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांइहि
अ तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि च् घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम
अ पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः च् शुम्भन्ति विप्रं धीतिभिः
अ आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतम् च् ध्रुवे सदसि सीदतु
अ नू नो रयिं महामिन्दो ऽस्मभ्यं सोम विश्वतः च् आ पवस्व सहस्रिणम्
अ पिबा सोममिन्द्र मदन्तु त्वा यं ते सुषाव हर्यश्वाद्रिः च् सोतुर्बाहुभ्यां सुयतो नार्वा
अ यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि च् स त्वामिन्द्र प्रभूवसो ममत्तु
अ बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् च् इमा ब्रह्म सधमादे जुषस्व
अ विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे च् क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम्