अ पवमानस्य ते रसो दक्षो वि राजति द्युमान् च् ज्योतिर्विश्वं स्वर्दृशे
अ प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः च् घ्नन्तः कृष्णामप त्वचम्
अ सुवितस्य मनामहे ऽति सेतुं दुराय्यम् च् साह्याम दस्युमव्रतम्
अ शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः च् चरन्ति विद्युतो दिवि
अ आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् च् अश्ववत्सोम वीरवत्
अ पवस्व विश्वचर्षण आ मही रोदसी पृण च् उषाः सूर्यो न रश्मिभिः
अ परि नः शर्मयन्त्या धारया सोम विश्वतः च् सरा रसेव विष्टपम्
अ आशुरर्ष बृहन्मते परि प्रियेण धाम्ना च् यत्र देवा इति ब्रुवन्
अ परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः च् वृष्टिं दिवः परि स्रव
अ अयं स यो दिवस्परि रघुयामा पवित्र आ च् सिन्धोरूर्मा व्यक्षरत्
अ सुत एति पवित्र आ त्विषिं दधान ओजसा च् विचक्षाणो विरोचयन्
अ आविवासन्परावतो अथो अर्वावतः सुतः च् इन्द्राय सिच्यते मधु
अ समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः च् इन्दुमिन्द्राय पीतये
अ हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् च् महामिन्दुं महीयुवः
अ पवमान रुचारुचा देवो देवेभ्यः सुतः च् विश्वा वसून्या विश
अ आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः च् इषे पवस्व संयतम्
अ जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे च् घृतप्रतीको बृहता दिविस्पृषा द्युमद्वि भाति भरतेभ्यः शुचिः
अ त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने च् स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः
अ यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते च् इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः
अ अयं वां मित्रावरुणा सुतः सोम ऋतावृधा च् ममेदिह श्रुतं हवम्
अ राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे च् सहस्रस्थूण आशाते
अ ता सम्राजा घृतासुती आदित्या दानुनस्पती च् सचेते अनवह्वरम्
अ इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः च् जघान नवतीर्नव
अ इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् च् तद्विदच्छर्यणावति
अ अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् च् इत्था चन्द्रमसो गृहे
अ इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः च् अभ्राद्वृष्टिरिवाजनि
अ शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः च् ईशाना पिप्यतं धियः
अ मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये च् मा नो रीरधतं निदे
अ पवस्व दक्षसाधनो देवेभ्यः पीतये हरे च् मरुद्भ्यो वायवे मदः
अ सं देवैः शोभते वृषा कविर्योनावधि प्रियः च् पवमानो अदाभ्यः