अ येन ज्योतींष्यायवे मनवे च विवेदिथ च् मन्दानो अस्य बर्हिषो वि राजसि
अ तदद्या चित्त उक्थिनो ऽनु ष्टुवन्ति पूर्वथा च् वृषपत्नीरपो जया दिवेदिवे
अ श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति च् सुवीर्यस्य गोमतो रायस्पूर्धि महां असि
अ यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् च् चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम्
अ तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः च् पुरूण्यस्य नौंस्या सिषासन्तो वनामहे
तृतीय प्रथमो ऽर्धः अ प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि च् प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः
अ उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः च् यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति
अ विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः च् व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि
अ पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् च् ज्योतिर्वैश्वानरं बृहत्
अ पवमान रसस्तव मदो राजन्नदुच्छुनः च् वि वारमव्यमर्षति
अ पवमानस्य ते रसो दक्षो वि राजति द्युमान् च् ज्योतिर्विश्वं स्वर्दृशे
अ प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः च् घ्नन्तः कृष्णामप त्वचम्
अ सुवितस्य मनामहे ऽति सेतुं दुराय्यम् च् साह्याम दस्युमव्रतम्
अ शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः च् चरन्ति विद्युतो दिवि
अ आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् च् अश्ववत्सोम वीरवत्
अ पवस्व विश्वचर्षण आ मही रोदसी पृण च् उषाः सूर्यो न रश्मिभिः
अ परि नः शर्मयन्त्या धारया सोम विश्वतः च् सरा रसेव विष्टपम्
अ आशुरर्ष बृहन्मते परि प्रियेण धाम्ना च् यत्र देवा इति ब्रुवन्
अ परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः च् वृष्टिं दिवः परि स्रव
अ अयं स यो दिवस्परि रघुयामा पवित्र आ च् सिन्धोरूर्मा व्यक्षरत्
अ सुत एति पवित्र आ त्विषिं दधान ओजसा च् विचक्षाणो विरोचयन्
अ आविवासन्परावतो अथो अर्वावतः सुतः च् इन्द्राय सिच्यते मधु
अ समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः च् इन्दुमिन्द्राय पीतये
अ हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् च् महामिन्दुं महीयुवः
अ पवमान रुचारुचा देवो देवेभ्यः सुतः च् विश्वा वसून्या विश
अ आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः च् इषे पवस्व संयतम्
अ जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे च् घृतप्रतीको बृहता दिविस्पृषा द्युमद्वि भाति भरतेभ्यः शुचिः
अ त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने च् स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः
अ यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते च् इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः
अ अयं वां मित्रावरुणा सुतः सोम ऋतावृधा च् ममेदिह श्रुतं हवम्