अ एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति च् इन्द्रमा विश बृहता मदेन वाचं जनया पुरन्धिम्
अ यद्द्याव इन्द्र ते शतंशतं भूमीरुत स्युः च् न त्वा वज्रिन्त्सहस्रं सुर्या अनु न जातमष्ट रोदसी
अ आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा च् अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः
अ वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः च् पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते
अ स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः च् कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः
अ कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् च् पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे
अ तरणिरित्सिषासति वाजं पुरन्ध्या युजा च् आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम्
अ न दुष्टुतिर्द्रविणोदेषु शस्यते न स्रेधन्तं रयिर्नशत् च् सुशक्तिरिन्मघवं तुभ्यं मावते देष्णं यत्पार्ये दिवि
अ तिस्रो वाच उदीरते गावो मिमन्ति धेनवः च् हरिरेति कनिक्रदत्
अ अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः च् मर्जयन्तीर्दिवः शिशुम्
अ रायः समुद्रांश्चतुरो ऽस्मभ्यं सोम विश्वतः च् आ पवस्व सहस्रिणः
अ सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः च् पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः
अ इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् च् वाचस्पतिर्मखस्यते विश्वस्येशान ओजसाः
अ सहस्रधारः पवते समुद्रो वाचमीङ्खयः च् सोमस्पती रयीणां सखेन्द्रस्य दिवेदिवे
अ पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः च् अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत
अ तपोष्पवित्रं विततं दिवस्पदे ऽर्चन्तो अस्य तन्तवो व्यस्थिरन् च् अवन्त्यस्य पवीतारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा
अ अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः च् मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः
अ प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे च् उपस्तुतासो अग्नये
अ आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः च् कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत्
अ तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् च् उ लोककृत्नुमद्रिवो हरिश्रियम्
अ येन ज्योतींष्यायवे मनवे च विवेदिथ च् मन्दानो अस्य बर्हिषो वि राजसि
अ तदद्या चित्त उक्थिनो ऽनु ष्टुवन्ति पूर्वथा च् वृषपत्नीरपो जया दिवेदिवे
अ श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति च् सुवीर्यस्य गोमतो रायस्पूर्धि महां असि
अ यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् च् चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम्
अ तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः च् पुरूण्यस्य नौंस्या सिषासन्तो वनामहे
तृतीय प्रथमो ऽर्धः अ प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि च् प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः
अ उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः च् यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति
अ विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः च् व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि
अ पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् च् ज्योतिर्वैश्वानरं बृहत्
अ पवमान रसस्तव मदो राजन्नदुच्छुनः च् वि वारमव्यमर्षति