अ इषे पवस्व धारया मृज्यमानो मनीषिभिः च् इन्दो रुचाभि गा इहि
अ पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः च् हरे सृजान आशिरम्
अ पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् च् द्युतानो वाजिभिर्हितः
अ अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा च् हव्यवाड्जुह्वास्यः
अ यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति च् तस्य स्म प्राविता भव
अ यो अग्निं देववीतये हविष्मां आविवासति च् तस्मै पावक मृडय
अ मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् च् धियं घृताचीं साधन्ता
अ ऋतेन मित्रावरुणावृतावृधावृतस्पृशा च् क्रतुं बृहन्तमाशाथे
अ कवी नो मित्रावरुणा तुविजाता उरुक्षया च् दक्षं दधाते अपसम्
अ इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा च् मन्दू समानवर्च्चसा
अ आदह स्वधामनु पुनर्गर्भत्वमेरिरे च् दधाना नाम यज्ञियम्
अ वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः च् अविन्द उस्रिया अनु
अ ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् च् इन्द्राग्नी न
अ उग्रा विघनिना मृध इन्द्राग्नी हवामहे च् ता नो मृडात ईदृशे
अ हथो वृत्राण्यार्या हथो दासानि सत्पती च् हथो विश्वा अप द्विषः
अ अभि सोमास आयवः पवन्ते मद्यं मदम् च् समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः
अ तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् च् अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत्
अ नृभिर्येमाणो हर्यतो विचक्षणो राजा देवः समुद्र्यः
अ तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् च् गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः
अ सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः च् सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते
अ एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति च् इन्द्रमा विश बृहता मदेन वाचं जनया पुरन्धिम्
अ यद्द्याव इन्द्र ते शतंशतं भूमीरुत स्युः च् न त्वा वज्रिन्त्सहस्रं सुर्या अनु न जातमष्ट रोदसी
अ आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा च् अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः
अ वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः च् पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते
अ स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः च् कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः
अ कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् च् पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे
अ तरणिरित्सिषासति वाजं पुरन्ध्या युजा च् आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम्
अ न दुष्टुतिर्द्रविणोदेषु शस्यते न स्रेधन्तं रयिर्नशत् च् सुशक्तिरिन्मघवं तुभ्यं मावते देष्णं यत्पार्ये दिवि
अ तिस्रो वाच उदीरते गावो मिमन्ति धेनवः च् हरिरेति कनिक्रदत्
अ अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः च् मर्जयन्तीर्दिवः शिशुम्