अ विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः च् त्मना कृण्वन्तो अर्वतः
अ कृण्वन्तो वरिवो गवे ऽभ्यर्षन्ति सुष्टुतिम् च् इडामस्मभ्यं संयतम्
अ राजा मेधाभिरीयते पवमानो मनावधि च् अन्तरिक्षेण यातवे
अ आ नः सोम सहो जुवो रूपं न वर्चसे भर च् सुष्वाणो देववीतये
अ आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम् च् वहा भगत्तिमूतये
अ तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः च् चारुं सुकृत्ययेमहे
अ संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् च् शतं पुरो रुरुक्षणिम्
अ अतस्त्वा रयिरभ्ययद्राजानं सुक्रतो दिवः च् सुपर्णो अव्यथी भरत्
अ अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे च् अभिष्टिकृद्विचर्षणिः
अ विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् च् गोपामृतस्य विर्भरत्
अ इषे पवस्व धारया मृज्यमानो मनीषिभिः च् इन्दो रुचाभि गा इहि
अ पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः च् हरे सृजान आशिरम्
अ पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् च् द्युतानो वाजिभिर्हितः
अ अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा च् हव्यवाड्जुह्वास्यः
अ यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति च् तस्य स्म प्राविता भव
अ यो अग्निं देववीतये हविष्मां आविवासति च् तस्मै पावक मृडय
अ मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् च् धियं घृताचीं साधन्ता
अ ऋतेन मित्रावरुणावृतावृधावृतस्पृशा च् क्रतुं बृहन्तमाशाथे
अ कवी नो मित्रावरुणा तुविजाता उरुक्षया च् दक्षं दधाते अपसम्
अ इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा च् मन्दू समानवर्च्चसा
अ आदह स्वधामनु पुनर्गर्भत्वमेरिरे च् दधाना नाम यज्ञियम्
अ वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः च् अविन्द उस्रिया अनु
अ ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् च् इन्द्राग्नी न
अ उग्रा विघनिना मृध इन्द्राग्नी हवामहे च् ता नो मृडात ईदृशे
अ हथो वृत्राण्यार्या हथो दासानि सत्पती च् हथो विश्वा अप द्विषः
अ अभि सोमास आयवः पवन्ते मद्यं मदम् च् समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः
अ तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् च् अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत्
अ नृभिर्येमाणो हर्यतो विचक्षणो राजा देवः समुद्र्यः
अ तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् च् गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः
अ सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः च् सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते