अ ता हि शश्वन्त ईडत इत्था विप्रास ऊतये च् सबाधो वाजसातये
अ ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे च् मेधसाता सनिष्यवः
अ वृषा पवस्व धारया मरुत्वते च मत्सरः च् दिश्वा दधान ओजसा
अ तं त्वा धर्त्तारमोण्योः पवमान स्वर्दृशम् च् हिन्वे वाजेषु वाजिनम्
अ अया चित्तो विपानया हरिः पवस्व धारया च् युजं वाजेषु चोदय
अ वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्याम् च् इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयन्नर्षसि वाचमेमाम्
अ रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम् च् पवमान सन्तनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः
अ एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नुम् च् परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः
अ त्वामिद्धि हवामहे सातौ वाजस्य कारवः च् त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः
अ स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः च् गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे
अ अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे च् यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति
अ शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे च् गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः
अ त्वामिदा ह्यो नरो ऽपीप्यन्वज्रिन्भूर्णयः च् स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि
अ मत्स्वा सुशिप्रिन्हरिवस्तमीमहे त्वया भूषन्ति वेधसः च् तव श्रवांस्युपमान्युक्थ्य सुतेष्विन्द्र गिर्वणः
अ यस्ते मदो वरेण्यस्तेना पवस्वान्धसा च् देवावीरघशंसहा
अ जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे च् गोषातिरश्वसा असि
अ सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि च् सीदं च्छ्येनो न योनिमा
अ अयं पूषा रयिर्भगः सोमः पुनानो अर्षति च् पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे
अ समु प्रिया अनूषत गावो मदाय घृष्वयः च् सोमासः कृण्वते पथः पवमानास इन्दवः
अ य ओजिष्ठस्तमा भर पवमान श्रवाय्यम् च् यः पञ्च चर्षणीरभि रयिं येन वनामहे
अ वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः च् प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः
अ मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां असिष्यदत् च् त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायूं सख्याय
अ अयं पुनान उषसो अरोचयदयं सिन्धुभ्यो अभवदु लोककृत् च् अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः
अ एवा ह्यसि वीरयुरेवा शूर उत स्थिरह् च् एवा ते राध्यं मनः
अ एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः च् अधा चिदिन्द्र नः सचा
अ मो षु ब्रह्मेव तदिन्द्रयुर्भुवो वाजानां पते च् मत्स्वा सुतस्य गोमतः
अ इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः च् रथीतमं रथीनां वाजानां सत्पतिं पतिम्
अ सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते च् त्वामभि प्र नोनुमो जेतारमपराजितम्
अ पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः च् यदा वाजस्य गोमत स्तोतृभ्यो मंहते मघम्
द्वितीय द्वितीयो ऽर्धः अ एत असृग्रमिन्दवस्तिरः पवित्रमाशवः च् विश्वान्यभि सौभगा