अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो प्र नो राये पनीयसे रत्सि वाजाय पन्थाम्
यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः आजुह्वद्धव्यमानुषक्शर्म भक्षीत दैव्यम्
त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः सूरो न हि द्युता त्वं कृपा पावक रोचसे
त्वं हि क्षैतवद्यशो ऽग्ने मित्रो न पत्यसे त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि
प्रातरग्निः पुरुप्रियो विष स्तवेतातिथिः विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो महिषीव त्वद्रयिस्त्वद्वाजा उदीरते
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः
बृहद्वयो हि भानवे ऽर्चा देवायाग्नये यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः
अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् य स्म श्रुतर्वन्नार्क्षे बृहदनीक इध्यते
जातः परेण धर्मणा यत्सवृद्भिः सहाभुवः पिता यत्कश्यपस्याग्निः श्रद्धा माता मनुः कविः
सोमं राजानं वरुणमग्निमन्वारभामहे आदित्यं विष्णुं सूर्यं ब्रह्मानं च बृहस्पतिम्
इत एत उदारुहन्दिवः पृष्ठान्या रुहन् प्र भूर्जयो यथा पथोद्यामङ्गिरसो ययुः
राये अग्ने महे त्वा दानाय समिधीमहि ईडिष्वा हि महे वृषं द्यावा होत्राय पृथिवी
दधन्वे वा यदीमनु वोचद्ब्रह्मेति वेरु तत् परि विश्वानि काव्या नेमिश्चक्रमिवाभुवत्
प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि यातुधानस्य रक्षसो बलं न्युब्जवीर्यम्
त्वमग्ने वसूंरिह रुद्रां आदित्यां उत यजा स्वध्वरं जनं मनुजातं घृतप्रुषम्
द्वितीय प्रथमो ऽर्धः पुरु त्वा दाशिवां वोचे ऽरिरग्ने तव स्विदा तोदस्येव शरण आ महस्य
प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् विपां ज्योतींषि बिभ्रते न वेधसे
अग्ने वाजस्य गोमत ईशानः सहसो यहो अस्मे धेहि जातवेदो महि श्रवः
अग्ने यजिष्ठो अध्वरे देवां देवयते यज होता मन्द्रो वि राजस्यति स्रिधः
जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये अयं ध्रुवो रयीणां चिकेतदा
उत स्या नो दिवा मतिरदितिरूत्यागमत् सा शन्ताता मयस्करदप स्रिधः
ईडिष्वा हि प्रतीव्यां यजस्व जातवेदसम् चरिष्णुधूममगृभीतशोचिषम्
न तस्य मायया च न रिपुरीशीत मर्त्यः यो अग्नये ददाश हव्यदातये
अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् दविष्ठमस्य सत्पते कृधी सुगम्
श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते नि मायिनस्तपसा रक्षसो दह
प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे उपस्तुतासो अग्नये
प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः यस्य त्वं सख्यमाविथ
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे देवत्रा हव्यमूहिषे
मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एशः यः सुहोता स्वध्वरः