अ आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः च् इन्दुमिन्द्राय पीतये
अ अया पवस्व देवयु रेभन्पवित्रं पर्येषि विश्वतः च् मधोर्धारा असृक्षत
अ पवते हर्यतो हरिरति ह्वरांसि रंह्या च् अभ्यर्ष स्तोतृभ्यो वीरवद्यशः
अ प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः च् अप श्वानमराधसं हता मखं न भृगवः
द्वितीय प्रथमो ऽर्धः अ पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः च् अभि विश्वानि काव्या
अ त्वं समुद्रिया अपो ऽग्रियो वाच ईरयन् च् पवस्व विश्वचर्षणे
अ तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे च् तुभ्यं धावन्ति धेनवः
अ पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने च् विश्वा अप द्विषो जहि
अ यस्य ते सख्ये वयं सासह्याम पृतन्यतः च् तवेन्दो द्युम्न उत्तमे
अ या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे च् रक्षा समस्य नो निदः
अ वृषा सोम द्युमां असि वृषा देव वृषव्रतः च् वृषा धर्माणि दध्रिषे
अ वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा सुतः च् स त्वं वृषन्वृषेदसि
अ अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः च् वि नो राये दुरो वृधि
अ वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे च् पवमान स्वर्दृशम्
अ यदद्भिः परिशिच्यसे मर्मृज्यमान आयुभिः च् द्रोणे सधस्थमश्नुषे
अ आ पवस्व सुवीर्यं मन्दमानः स्वायुध च् इहो ष्विन्दवा गहि
अ पवमानस्य ते वयं पवित्रमभ्युन्दतः च् सखित्वमा वृणीमहे
अ ये ते पवित्रमूर्मयो ऽभिक्षरन्ति धारया च् तेभिर्नः सोम मृडय
अ स नः पुनान आ भर रयिं वीरवतीमिषम् च् ईशानः सोम विश्वतः
अ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् च् अस्य यज्ञस्य सुक्रतुम्
अ अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् च् हव्यवाहं पुरुप्रियम्
अ अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे च् असि होता न ईड्यः
अ मित्रं वयं हवामहे वरुणं सोमपीतये च् य जाता पूतदक्षसा
अ ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती च् ता मित्रावरुणा हुवे
अ वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः च् करतां नः सुराधसः
अ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः च् इन्द्रं वाणीरनूषत
अ इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा च् इन्द्रो वज्री हिरण्ययः
अ इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च च् उग्र उग्राभिरूतिभिः
अ इन्द्रो दीर्धाय चक्षस आ सूर्यं रोहयद्दिवि च् वि गोभिरद्रिमैरयत्
अ इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे च् धिया धेना अवस्यवः