अ प्रत्यु अदर्श्यायत्यूच्छन्ती दुहिता दिवः च् अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी
अ उदुस्रियाः सृजते सूर्यः सचा उद्यन्नक्षत्रमर्चिवत् च् तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि
अ इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना च् अयं वामह्वे ऽवसे शचीवसू विशंविशं हि गच्छथः
अ युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते च् अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु
अ अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः च् पयः सहस्रसामृषिम्
अ अयं सूर्य इवोपदृगयं सरांसि धावति च् सप्त प्रवत आ दिवम्
अ अयं विश्वानि तिष्ठति पुनानो भुवनोपरि च् सोमो देवो न सूर्यः
अ एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः च् हरिः पवित्रे अर्षति
अ एष प्रत्नेन मन्मना देवो देवेभ्यस्परि च् कविर्विप्रेण वावृधे
अ दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यसे च् क्रन्दं देवां अजीजनः
अ उप शिक्षापतस्थुषो भियसमा धेहि शत्रवे च् पवमान विदा रयिम्
अ उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् च् इन्दुं देवा अयासिषुः
अ उपास्मै गायता नरः पवमानायेन्दवे च् अभि देवां इयक्षते
अ प्र सोमासो विपश्चितो ऽपो नयन्त ऊर्मयः च् वनानि महिषा इव
अ अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया च् वाजं गोमन्तमक्षरन्
अ सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः च् सोमा अर्षन्तु विष्णवे
अ प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा च् अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम्
अ आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः च् तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः
अ प्र सोमासो मदच्युतः श्रवसे नो मघोनाम् च् सुता विदथे अक्रमुः
अ आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम् च् अत्यो न गोभिरज्यते
अ आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः च् इन्दुमिन्द्राय पीतये
अ अया पवस्व देवयु रेभन्पवित्रं पर्येषि विश्वतः च् मधोर्धारा असृक्षत
अ पवते हर्यतो हरिरति ह्वरांसि रंह्या च् अभ्यर्ष स्तोतृभ्यो वीरवद्यशः
अ प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः च् अप श्वानमराधसं हता मखं न भृगवः
द्वितीय प्रथमो ऽर्धः अ पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः च् अभि विश्वानि काव्या
अ त्वं समुद्रिया अपो ऽग्रियो वाच ईरयन् च् पवस्व विश्वचर्षणे
अ तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे च् तुभ्यं धावन्ति धेनवः
अ पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने च् विश्वा अप द्विषो जहि
अ यस्य ते सख्ये वयं सासह्याम पृतन्यतः च् तवेन्दो द्युम्न उत्तमे
अ या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे च् रक्षा समस्य नो निदः