अ इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति च् यन्ति प्रमादमतन्द्राः
अ इन्द्राय मद्व्ने सुतं परि ष्टोभन्तु नो गिरः च् अर्कमर्च्चन्तु कारवः
अ यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः च् इन्द्रं सुते हवामहे
अ त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत च् नो गिरः
अ अयं त इन्द्र सोमो निपूतो अधि बर्हिषि च् एहीमस्य द्रवा पिब
अ शाचिगो शाचिपूजनायं रणाय ते सुतः च् आखण्डल प्र हूयसे
अ यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः च् न्यस्मिं दध्र आ मनः
अ आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय च् महाहस्ति दक्षिणेन
अ विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् च् तुविमात्रमवोभिः
अ न हि त्वा शूर देवा न मर्तासो दित्सन्तम् च् भीमं न गां वारयन्ते
अ अभि त्वा वृषभा सुते सुतं सृजामि पीतये च् तृम्पा व्यश्नुही मदम्
अ मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् च् मा कीं ब्रह्मद्विषं वनः
अ इह त्वा गोपरीणसं महे मन्दन्तु राधसे च् सरो गौरो यथा पिब
अ इदम् वसो सुतमन्धः पिबा सुपूर्णमुदरम् च् अनाभयिन्ररिमा ते
अ नृभिर्धौतः सुतो अश्नैरव्या वारैः परिपूतः च् अश्वो न निक्तो नदीषु
अ तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः च् इन्द्र त्वास्मिंत्सधमादे
अ इदं ह्यन्वोजसा सुतं राधानां पते च् पिबा त्वास्य गिर्वणः
अ यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् च् स त्वा ममत्तु सोम्यम्
अ प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः च् प्र बाहू शूर राधसा
अ आ त्वेता नि षीदतेन्द्रमभि प्र गायत च् सखाय स्तोमवाहसः
अ पुरूतमं पुरूणामीशानं वार्याणाम् च् इन्द्रं सोमे सचा सुते
अ स घा नो योग आ भुवत्स राये स पुरन्ध्या च् गमद्वाजेभिरा स नः
अ योगेयोगे तवस्तरं वाजेवाजे हवामहे च् सखाय इन्द्रमूतये
अ अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् च् यं ते पूर्वं पिता हुवे
अ आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः च् वाजेभिरुप नो हवम्
अ इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् च् विदे वृधस्य दक्षस्य महां हि षः
अ स प्रथमे व्योमनि देवानां सदने वृधः च् सुपारः सुश्रवस्तमः समप्सुजित्
अ तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणम् च् भवा नः सुम्ने अन्तमः सखा वृधे
अ एना वो अग्निं नमसोर्जो नपातमा हुवे च् प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम्
अ स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः च् सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम्