अ वार्ण त्वा शूर ब्रह्माणि च् ववृध्वांसं चिदद्रिवो दिवेदिवे
अ पुञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा च् इन्द्रवाहा स्वर्विदा
प्रथम द्वितीयो ऽर्धः अ पान्तमा वो अन्धस इन्द्रमभि प्र गायत च् विश्वासाहं शत्क्रतुं मंहिष्ठं चर्षणीनाम्
अ पुरुहूतं पुरुष्टुतं गाथान्यां सनश्रुतम् च् इन्द्र इति ब्रवीतन
अ इन्द्र इन्नो महोनां दाता वाजानां नृतुः च् महां अभिज्ञ्वा यमत्
अ प्र व इन्द्राय मादनं हर्यश्वाय गायत च् सखायः सोमपाव्ने
अ शंसेदुक्थं सुदानव उत द्युक्षं यथ नरः च् चकृमा सत्यराधसे
अ त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो च् त्वं हिरण्ययुर्वसो
अ वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः च् कण्वा उक्थेभिर्जरन्ते
अ न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ च् तवेदु स्तोमैश्चिकेत
अ इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति च् यन्ति प्रमादमतन्द्राः
अ इन्द्राय मद्व्ने सुतं परि ष्टोभन्तु नो गिरः च् अर्कमर्च्चन्तु कारवः
अ यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः च् इन्द्रं सुते हवामहे
अ त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत च् नो गिरः
अ अयं त इन्द्र सोमो निपूतो अधि बर्हिषि च् एहीमस्य द्रवा पिब
अ शाचिगो शाचिपूजनायं रणाय ते सुतः च् आखण्डल प्र हूयसे
अ यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः च् न्यस्मिं दध्र आ मनः
अ आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय च् महाहस्ति दक्षिणेन
अ विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् च् तुविमात्रमवोभिः
अ न हि त्वा शूर देवा न मर्तासो दित्सन्तम् च् भीमं न गां वारयन्ते
अ अभि त्वा वृषभा सुते सुतं सृजामि पीतये च् तृम्पा व्यश्नुही मदम्
अ मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् च् मा कीं ब्रह्मद्विषं वनः
अ इह त्वा गोपरीणसं महे मन्दन्तु राधसे च् सरो गौरो यथा पिब
अ इदम् वसो सुतमन्धः पिबा सुपूर्णमुदरम् च् अनाभयिन्ररिमा ते
अ नृभिर्धौतः सुतो अश्नैरव्या वारैः परिपूतः च् अश्वो न निक्तो नदीषु
अ तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः च् इन्द्र त्वास्मिंत्सधमादे
अ इदं ह्यन्वोजसा सुतं राधानां पते च् पिबा त्वास्य गिर्वणः
अ यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् च् स त्वा ममत्तु सोम्यम्
अ प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः च् प्र बाहू शूर राधसा
अ आ त्वेता नि षीदतेन्द्रमभि प्र गायत च् सखाय स्तोमवाहसः