प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो
अग्निं नरो दीधितिभिरण्योर्हस्तच्युतं जनयत प्रशस्तम् दूरेदृशं गृहपतिमथव्युम्
अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ
प्र भूर्जयन्तं महां विपोधां मूरैरमूरं पुरां दर्माणम् नयन्तं गीर्भिर्वना धियं धा हरिश्मश्रुं न वार्मणा धनर्चिम्
शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि विश्वा हि माया अवसि स्वधावन्भद्रा ते पूषन्निह रातिरस्तु
इडामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे
प्र होता जातो महान्नभोविन्नृषद्मा सीददपां विवर्ते दधद्यो धायी सुते वयांसि यन्ता वसूनि विधते तनूपाः
प्र सम्राजमसुरस्य प्रश्स्तं पुंसः कृष्टीनामनुमाद्यस्य इन्द्रस्येव प्र तवसस्कृतानि वन्दद्वारा वन्दमाना विवष्टु
अरण्योर्निहितो जातवेदा गर्भ इवेत्सुभृतो गर्भिणीभिः दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः
सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः अनु दह सहमूरान्कयादो मा ते हेत्या मुक्षत दैव्यायाः
अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो प्र नो राये पनीयसे रत्सि वाजाय पन्थाम्
यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः आजुह्वद्धव्यमानुषक्शर्म भक्षीत दैव्यम्
त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः सूरो न हि द्युता त्वं कृपा पावक रोचसे
त्वं हि क्षैतवद्यशो ऽग्ने मित्रो न पत्यसे त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि
प्रातरग्निः पुरुप्रियो विष स्तवेतातिथिः विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो महिषीव त्वद्रयिस्त्वद्वाजा उदीरते
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः
बृहद्वयो हि भानवे ऽर्चा देवायाग्नये यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः
अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् य स्म श्रुतर्वन्नार्क्षे बृहदनीक इध्यते
जातः परेण धर्मणा यत्सवृद्भिः सहाभुवः पिता यत्कश्यपस्याग्निः श्रद्धा माता मनुः कविः
सोमं राजानं वरुणमग्निमन्वारभामहे आदित्यं विष्णुं सूर्यं ब्रह्मानं च बृहस्पतिम्
इत एत उदारुहन्दिवः पृष्ठान्या रुहन् प्र भूर्जयो यथा पथोद्यामङ्गिरसो ययुः
राये अग्ने महे त्वा दानाय समिधीमहि ईडिष्वा हि महे वृषं द्यावा होत्राय पृथिवी
दधन्वे वा यदीमनु वोचद्ब्रह्मेति वेरु तत् परि विश्वानि काव्या नेमिश्चक्रमिवाभुवत्
प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि यातुधानस्य रक्षसो बलं न्युब्जवीर्यम्
त्वमग्ने वसूंरिह रुद्रां आदित्यां उत यजा स्वध्वरं जनं मनुजातं घृतप्रुषम्
द्वितीय प्रथमो ऽर्धः पुरु त्वा दाशिवां वोचे ऽरिरग्ने तव स्विदा तोदस्येव शरण आ महस्य
प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् विपां ज्योतींषि बिभ्रते न वेधसे
अग्ने वाजस्य गोमत ईशानः सहसो यहो अस्मे धेहि जातवेदो महि श्रवः
अग्ने यजिष्ठो अध्वरे देवां देवयते यज होता मन्द्रो वि राजस्यति स्रिधः