अ वरिवोधातमो भुवो मंहिष्ठो वृत्रहन्तमः च् पर्षि राधो मघोनाम्
अ पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः च् महि द्युक्षतमो मदः
अ यस्य ते पीत्वा वृषभो वृषायते ऽस्य पीत्वा स्वर्विदः च् स सुप्रकेतो अभ्यक्रमीदिषो ऽच्छा वाजं नैतशः
अ इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः च् श्रुष्टे जातास इन्दवः स्वर्विदः
अ अयं भराय सानसिरिन्द्राय पवते सुतः च् सोमो जैत्रस्य चेतति यथा विदे
अ अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिम् च् वज्रं च वृषणं भरत्समप्सुजित्
अ पुरोजिती वो अन्धसः सुताय मादयित्नवे च् अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम्
अ यो धारया पावकया परिप्रस्यन्दते सुतः च् इन्दुरश्वो न कृत्व्यः
अ तं दुरोषमभी नरः सोमं विश्वाच्या धिया च् यज्ञाय सन्त्वद्रयः
अ अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु च् आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः
अ ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः च् दधाति पुत्रः पित्रोरपीच्यां नाम तृतीयमधि रोचनं दिवः
अ अव द्युतानः कलशां अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये च् अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि
अ यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे च् प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम्
अ ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये च् भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम्
अ एह्यू षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः च् एभिर्वर्धास इन्दुभिः
अ यत्र क्व च ते मनो दक्षं दधस उत्तरम् च् तत्रा योनिं कृणवसे
अ न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते च् अथा दुवो वनवसे
अ वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तो ऽवस्यवः च् वज्रिञ्चित्रं हवामहे
अ उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् च् त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिम्
अ अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे च् उदेव ग्मन्त उदभिः
अ वार्ण त्वा शूर ब्रह्माणि च् ववृध्वांसं चिदद्रिवो दिवेदिवे
अ पुञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा च् इन्द्रवाहा स्वर्विदा
प्रथम द्वितीयो ऽर्धः अ पान्तमा वो अन्धस इन्द्रमभि प्र गायत च् विश्वासाहं शत्क्रतुं मंहिष्ठं चर्षणीनाम्
अ पुरुहूतं पुरुष्टुतं गाथान्यां सनश्रुतम् च् इन्द्र इति ब्रवीतन
अ इन्द्र इन्नो महोनां दाता वाजानां नृतुः च् महां अभिज्ञ्वा यमत्
अ प्र व इन्द्राय मादनं हर्यश्वाय गायत च् सखायः सोमपाव्ने
अ शंसेदुक्थं सुदानव उत द्युक्षं यथ नरः च् चकृमा सत्यराधसे
अ त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो च् त्वं हिरण्ययुर्वसो
अ वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः च् कण्वा उक्थेभिर्जरन्ते
अ न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ च् तवेदु स्तोमैश्चिकेत