अन्तश्चरति रोचनास्य प्राणादपानती व्यख्यन्महिषो दिवम्
त्रिंषद्धाम वि राजति वाक्पतङ्गाय धीयते प्रति वस्तोरह द्युभिः
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः सूराय विश्वचक्षसे
अदृश्रन्नस्य केतवो वि रश्मयो जनां अनु भ्राजन्तो अग्नयो यथा
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य विश्वमाभासि रोचनम्
प्रत्यङ् देवानां विशः प्रत्यङ्ङुदेषि मानुषान् प्रत्यङ् विश्वं स्वर्दृशे
येना पावक चक्षसा भुरण्यन्तं जनां अनु त्वं वरुण पश्यसि
उद्द्यामेषि रजः पृथ्वहा मिमानो अक्तुभिः पश्यञ्जन्मानि सूर्य
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्र्यः ताभिर्याति स्वयुक्तिभिः
सप्त त्वा हरितो रथे वहन्ति देव सूर्य शोचिष्केशं विचक्षण
इत्यारण्यं पर्व .. महानाम्न्य विदा मघवन् विदा गातुमनुशंसिषो दिशः शिक्षा शचीनां पते पूर्वीणां पुरूवसो
आभिष्ट्वमभिष्टिभिः स्वा ऽर्न्नांशुः प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे
एवा हि शक्रो राये वाजाय वज्रिवः शविष्ठ वज्रिन्नृञ्जसे मंहिष्ठ वज्रिन्नृञ्जस आ याहि पिब मत्स्व
विदा राये सुवीर्यं भवो वाजानां पतिर्वशां अनु मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम्
यो मंहिष्ठो मघोनाम्ंशुर्न्न शोचिः चिकित्वो अभि नो नयेंद्रो विदे तमु स्तुहि
ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितम् स नः स्वर्षदति द्विषः ऋतं बृहत्
इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः
पूर्वस्य यत्ते अद्रिवों ऽशुर्मदाय सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते वशी हि शक्रो नूनं तन्नव्यं संन्यसे
प्रभो जनस्य वृत्रहन्त्समर्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयुः
अथ पञ्च पुरीषपदानि एवाह्यो ऽ ऽ ऽवा एवा ह्यग्ने एवाहीन्द्र एवा हि पूषन् एवा हि देवाः ॐ एवाहि देवाः
इति पञ्च पुरीषपदानि .. .. इति .. उत्तर प्रथम प्रथमो ऽर्धः असितः काश्यपो देवलो वा. गायत्री. पवमानः सोमः. अ उपास्मै गायता नरः पवमानायेन्दवे च् अभि देवां इयक्षते
अ अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः च् देवं देवाय देवयु
अ स नः पवस्व शं गवे शं जनाय शमर्वते च् शं राजन्नोषधीभ्यः
कश्यपो मारीचः. गायत्री. पवमानः सोमः. अ दविद्युतत्या रुचा परिष्टोभन्त्या कृपा च् सोमाः शुक्रा गवाशिरः
अ हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् च् सीदन्तो वनुषो यथा
अ ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे च् पवस्व सूर्यो दृशे
शतं वैखानसाः, गायत्री, पवमानः सोमः. अ पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षते च् अर्वन्तो न श्रवस्यवः
अ अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये च् अवावशन्त धीतयः
अ अच्छा समुद्रमिन्दवो ऽस्तं गावो न धेनवः च् अग्मन्नृतस्य योनिमा
भरद्वाजो बार्हस्पत्यः, गायत्री, अग्निः. अ अग्न आ याहि वीतये गृणानो हव्यदातये च् नि होता सत्सि बर्हिषि