यशो मा द्यावापृथिवी यशो मेन्द्रबृहस्पती यशो भगस्य विन्दतु यशो मा प्रतिमुच्यताम् यशस्व्यास्याः सं सदो ऽहं प्रवदिता स्याम्
इन्द्रस्य नु वीर्याणि प्रवोचं यानि चकार प्रथमानि वज्री अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम्
अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् त्रिधातुरर्को रजसो विमानो ऽजस्रं ज्योतिर्हविरस्मि सर्वम्
पात्यग्निर्विपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य पाति नाभा सप्तशीर्षाणमग्निः
भ्राजन्त्यग्ने समिधान दीदिवो जिह्वा चरत्यन्तरासनि स त्वं नो अग्ने पयसा वसुविद्रयिं वर्चो दृशे ऽदाः
वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिं सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम्
त्रिपादूर्ध्व उदैत्पुरुषः पदो ऽस्येहाभवत्पुनः तथा विष्वङ् व्यक्रामदशनानशने अभि
पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् पादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि
तावानस्य महिमा ततो ज्यायांश्च पूरुषः उतामृतत्वस्येशानो यदन्नेनातिरोहति
ततो विराडजायत विराजो अधि पूरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः
मन्ये वां द्यावापृथिवी सुभोजसौ ये अप्रथेथाममितमभि योजनम् द्यावापृथिवी भवतं स्योने ते नो मुञ्चतमंहसः
हरी त इन्द्र श्मश्रूण्युतो ते हरितौ हरि तं त्वा स्तुवन्ति कवयः पुरुषासो वनर्गवः
यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत सत्यस्य ब्रह्मणो वर्चस्तेन मा सं सृजामसि
सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन् क्रतुं न नृम्णं स्थविरं च वाजं वृत्रेषु शत्रून्त्सुहना कृधी नः
सहर्षभाः सहवत्सा उदेत विश्वा रूपाणी बिभ्रतीर्द्व्यूद्नीः उरुः पृथुरयं वो अस्तु लोक इमा आपः सुप्रपाणा इह स्त
अग्न आयूंषि पवस आसुवोर्जमिषं च नः आरे बाधस्व दुच्छुनाम्
विभ्राङ्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः पितरं च प्रयन्त्स्वः
अन्तश्चरति रोचनास्य प्राणादपानती व्यख्यन्महिषो दिवम्
त्रिंषद्धाम वि राजति वाक्पतङ्गाय धीयते प्रति वस्तोरह द्युभिः
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः सूराय विश्वचक्षसे
अदृश्रन्नस्य केतवो वि रश्मयो जनां अनु भ्राजन्तो अग्नयो यथा
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य विश्वमाभासि रोचनम्
प्रत्यङ् देवानां विशः प्रत्यङ्ङुदेषि मानुषान् प्रत्यङ् विश्वं स्वर्दृशे
येना पावक चक्षसा भुरण्यन्तं जनां अनु त्वं वरुण पश्यसि
उद्द्यामेषि रजः पृथ्वहा मिमानो अक्तुभिः पश्यञ्जन्मानि सूर्य
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्र्यः ताभिर्याति स्वयुक्तिभिः
सप्त त्वा हरितो रथे वहन्ति देव सूर्य शोचिष्केशं विचक्षण