इमं वृषणं कृणुतैकमिन्माम्
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः वरिवोवित्परिस्रव
एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् सिषासन्तो वनामहे
अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि
त्वमेतदधारयः कृष्णासु रोहिणीषु च परुष्णीषु रुशत्पयः
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमादधुः
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा इन्द्रो वज्री हिरण्ययः
इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च उग्र उग्राभिरूतिभिः
प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः
नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते गन्तासि सुन्वतो गृहम्
यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम्
मयि वर्चो अथो यशो ऽथो यज्ञस्य यत्पयः परमेष्ठी प्रजापतिर्दिवि द्यामिव दृंहतु
सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व
त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः त्वमातनोरुर्वान्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ
अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् होतारं रत्नधातमम्
ते मन्वत प्रथमं नाम गोनां त्रिः सप्त परमं नाम जनान् ता जानतीरभ्यनूषत क्षा आविर्भुवन्नरुणीर्यशसा गावः
समन्या यन्त्युपयन्त्यन्याः समानमूर्वं नद्यस्पृणन्ति तमू शुचिं शुचयो दीदिवांसमपान्नपातमुप यन्त्यापः
आ प्रागाद्भद्रा युवतिरह्नः केतून्त्समीर्त्सति अभूद्भद्रा निवेशनी विश्वस्य जगतो रात्री
प्रक्षस्य वृष्णो अरुषस्य नू महः प्र नो वचो विदथा जातवेदसे वैश्वानराय मतिर्नव्यसे शुचिः सोम इव पवते चारुरग्नये
विश्वे देवा मम शृण्वन्तु यज्ञमुभे रोदसी अपां नपाच्च मन्म मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम
यशो मा द्यावापृथिवी यशो मेन्द्रबृहस्पती यशो भगस्य विन्दतु यशो मा प्रतिमुच्यताम् यशस्व्यास्याः सं सदो ऽहं प्रवदिता स्याम्
इन्द्रस्य नु वीर्याणि प्रवोचं यानि चकार प्रथमानि वज्री अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम्
अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् त्रिधातुरर्को रजसो विमानो ऽजस्रं ज्योतिर्हविरस्मि सर्वम्
पात्यग्निर्विपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य पाति नाभा सप्तशीर्षाणमग्निः
भ्राजन्त्यग्ने समिधान दीदिवो जिह्वा चरत्यन्तरासनि स त्वं नो अग्ने पयसा वसुविद्रयिं वर्चो दृशे ऽदाः
वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिं सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम्
त्रिपादूर्ध्व उदैत्पुरुषः पदो ऽस्येहाभवत्पुनः तथा विष्वङ् व्यक्रामदशनानशने अभि
पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् पादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि
तावानस्य महिमा ततो ज्यायांश्च पूरुषः उतामृतत्वस्येशानो यदन्नेनातिरोहति