पवस्व देववीतय इन्दो धाराभिरोजसा आ कलशं मधुमान्त्सोम नः सदः
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति अग्रे वाचः पवमानः कनिक्रदत्
प्र पुनानाय वेधसे सोमाय वच उच्यते भृतिं न भरा मतिभिर्जुजोषते
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव शुचिं च वर्णमधि गोषु धार्य
अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत गोभिष्टे वर्णमभि वासयामसि
पवते हर्यतो हरिरति ह्वरांसि रंह्या अभ्यर्ष स्तोतृभ्यो वीरवद्यशः
परि कोशं मधुश्चुतं सोमः पुनानो अर्षति अभि वाणीरृषीणां सप्ता नूषत
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः महि द्युक्षतमो मदः
अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुम् वि कोशं मध्यमं युव
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् वनप्रक्षमुदप्रुतम्
एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवोदुहम् विश्वा वसूनि बिभ्रतम्
स सुन्वे यो वसूनां यो रायामानेता य इडानाम् सोमो यः सुक्षितीनाम्
त्वं ह्याङ्ग दैव्या पवमान जनिमानि द्युमत्तमः अमृतत्वाय घोषयन्
एष स्य धारया सुतो ऽव्यो वारेभिः पवते मदिन्तमः क्रीडन्नूर्मिरपामिव
य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज ॐ वर्मीव धृष्णवा रुज
इति सौम्यं पावमानं पर्व .. .. इति .. आरण्य आरण्य इन्द्र ज्येष्ठं न आ भर ओजिष्ठं पुपुरि श्रवः यद्दिधृक्षेम वज्रहस्त रोदसी ओभे सुशिप्र पप्राः
इन्द्रो राजा जगतश्चर्षणीनामधिक्षमा विश्वरूपं यदस्य ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतं चिदर्वाक्
यस्येदमा रजोयुजस्तुजे जने वनं स्वः इन्द्रस्य रन्त्यं बृहत्
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय अथादित्य व्रते वयं तवानागसो अदितये स्याम
त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः
इमं वृषणं कृणुतैकमिन्माम्
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः वरिवोवित्परिस्रव
एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् सिषासन्तो वनामहे
अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि
त्वमेतदधारयः कृष्णासु रोहिणीषु च परुष्णीषु रुशत्पयः
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमादधुः
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा इन्द्रो वज्री हिरण्ययः
इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च उग्र उग्राभिरूतिभिः
प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः
नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते गन्तासि सुन्वतो गृहम्