आ हर्यताय धृष्णवे धनुष्टन्वन्ति पौंस्यम् शुक्रा वि यन्त्यसुराय निर्णिजे विपामग्रे महीयुवः
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण यो देवान्विश्वां इत्परि मदेन सह गच्छति
प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः अप श्वानमराधसं हता मखं न भृगवः
अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः
अचोदसो नो धन्वन्त्विन्दवः प्र स्वानासो बृहद्देवेषु हरयः वि चिदश्नाना इषयो अरातयो ऽर्यो नः सन्तु सनिषन्तु नो धियः
एष प्र कोशे मधुमां अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टमः अभ्य्र्^ईतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च घेनवः
प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरम् मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा
धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः
त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे
इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत्
प्र देवमच्छा मधुमन्त इन्दवो ऽसिष्यदन्त गाव आ न धेनवः बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे
अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मघ्वाभ्यञ्जते सिन्धोरु ऽच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत
इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः श्रुष्टे जातास इन्दवः स्वर्विदः
प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव द्युमन्तं शुष्ममा भर स्वर्विदम्
सखाय आ नि षीदत पुनानाय प्र गायत शिशुं न यज्ञैः परि भूषत श्रिये
तं वः सखायो मदाय पुनानमभि गायत शिशुं न हव्यैः स्वदयन्त गूर्तिभिः
प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् विश्वा परि प्रिया भुवदध द्विता
पवस्व देववीतय इन्दो धाराभिरोजसा आ कलशं मधुमान्त्सोम नः सदः
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति अग्रे वाचः पवमानः कनिक्रदत्
प्र पुनानाय वेधसे सोमाय वच उच्यते भृतिं न भरा मतिभिर्जुजोषते
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव शुचिं च वर्णमधि गोषु धार्य
अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत गोभिष्टे वर्णमभि वासयामसि
पवते हर्यतो हरिरति ह्वरांसि रंह्या अभ्यर्ष स्तोतृभ्यो वीरवद्यशः
परि कोशं मधुश्चुतं सोमः पुनानो अर्षति अभि वाणीरृषीणां सप्ता नूषत
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः महि द्युक्षतमो मदः
अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुम् वि कोशं मध्यमं युव
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् वनप्रक्षमुदप्रुतम्