एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णः परि पवित्रे अक्षाः सहस्रदाः शतदा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात्
पवस्व सोम मधुमां ऋतावापो वसानो अधि सानो अव्ये अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सर इन्द्रपानः
प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते
प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यम् पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः
प्र गायताभ्यर्चाम देवान्त्सोमं हिनोत महते धनाय स्वादुः पवतामति वारमव्यमा सीदतु कलशं देव इन्दुः
प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिषन्नयासीत् इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः
तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य धर्मं द्युक्षोरनीके आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम्
साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी
अधि यदस्मिन्वाजिनीव शुभः धियः सूरे न विशः अपो वृणानः पवते कवीयन्व्रजं न मन्म
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा
अया पवा पवस्वैना वसूनि मांश्चत्व इन्द्रो सरसि प्र धन्व ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात्
महत्तत्सोमो महिषश्चकारापां यद्गर्भो ऽवृणीत देवान् अदधादिन्द्रे पवमान ओजो ऽजनयत्सूर्ये ज्योतिरिन्दुः
असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमा मनीष दश स्वसारो अधि सानो अव्ये मृजन्ति वह्निं सदनेष्वच्छ
अपामिवेदूर्मयस्तर्त्तुराणाः प्र मनीषा ईरते सोममच्छ नमस्यन्तीरुप च यन्ति सं चाच विशन्त्युशतीरुशन्तम्
षष्ठ द्वितीयो ऽर्धः पुरोजिती वो अन्धसः सुताय मादयित्नवे अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम्
अयं पूषा रयिर्भगः सोमः पुनानो अर्षति पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः
सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमाः मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः
अभी नो वाजसातमं रयिमर्ष शतस्पृहम् इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम्
अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः
आ हर्यताय धृष्णवे धनुष्टन्वन्ति पौंस्यम् शुक्रा वि यन्त्यसुराय निर्णिजे विपामग्रे महीयुवः
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण यो देवान्विश्वां इत्परि मदेन सह गच्छति
प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः अप श्वानमराधसं हता मखं न भृगवः
अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः
अचोदसो नो धन्वन्त्विन्दवः प्र स्वानासो बृहद्देवेषु हरयः वि चिदश्नाना इषयो अरातयो ऽर्यो नः सन्तु सनिषन्तु नो धियः
एष प्र कोशे मधुमां अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टमः अभ्य्र्^ईतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च घेनवः
प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरम् मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा
धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः
त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे