पुनानः सोम धारयापो वसानो अर्षसि आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः
परीतो षिञ्चता सुतं सोमो य उत्तमं हविः दधन्वां यो नर्यो अप्स्वान्तरा सुषाव सोममद्रिभिः
आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे
प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम्
सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् अश्वयेव हरिता याति धारया मन्द्रया याति धारया
तवाहं सोम रारण सख्य इन्दो दिवेदिवे पुरूणि बभ्रो नि चरन्ति मामव परिधींरति तां इहि
मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि
अभि सोमास आयवः पवन्ते मद्यं मदम् समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः
पुनानः सोम जागृविरव्या वारैः परि प्रियः त्वं विप्रो अभवो ऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः
इन्द्राय पवते मदः सोमो मरुत्वते सुतः सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः
पवस्व वाजसातमो ऽभि विश्वानि वार्या त्वं समुद्रः प्रथमे विधर्मं देवेभ्यं सोम मत्सरः
पवमाना असृक्षत पवित्रमति धारया मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष अश्वं न त्वा वाजिनं मर्जयन्तो ऽच्छा बर्ही रशनाभिर्नयन्ति
प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन्
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः
अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः
अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशन्त वाणीः वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि
अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः
कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः
एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णः परि पवित्रे अक्षाः सहस्रदाः शतदा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात्
पवस्व सोम मधुमां ऋतावापो वसानो अधि सानो अव्ये अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सर इन्द्रपानः
प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते
प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यम् पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः
प्र गायताभ्यर्चाम देवान्त्सोमं हिनोत महते धनाय स्वादुः पवतामति वारमव्यमा सीदतु कलशं देव इन्दुः
प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिषन्नयासीत् इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः
तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य धर्मं द्युक्षोरनीके आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम्
साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी
अधि यदस्मिन्वाजिनीव शुभः धियः सूरे न विशः अपो वृणानः पवते कवीयन्व्रजं न मन्म
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा