आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् अस्मे श्रवांसि धारय
अनु प्रत्नास आयवः पदं नवीयो अक्रमुः रुचे जनन्त सूर्यम्
अर्षा सोम द्युमत्तमो ऽभि द्रोणानि रोरुवत् सीदन्योनौ योनेष्वा
वृषा सोम द्युमां असि वृषा देव वृषव्रतः वृषा धर्माणि दध्रिषे
इषे पवस्व धारया मृज्यमानो मनीषिभिः इन्दो रुचाभि गा इहि
मन्द्रया सोम धारया वृषा पवस्व देवयुः अव्यो वारेभिरस्मयुः
अया सोम सुकृत्यपा हिन्दान इद्वृषायसे
अयं विचर्षणिर्हितः पवमानः स चेतति हिन्वान आप्यं बृहत्
प्र ण इन्दो महे तु न ऊर्मिं न बिभ्रदर्षसि अभि देवां अयास्यः
अपघ्नन्पवते मृधो ऽप सोमो अराव्णः गच्छन्निन्द्रस्य निष्कृतम्
पुनानः सोम धारयापो वसानो अर्षसि आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः
परीतो षिञ्चता सुतं सोमो य उत्तमं हविः दधन्वां यो नर्यो अप्स्वान्तरा सुषाव सोममद्रिभिः
आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे
प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम्
सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् अश्वयेव हरिता याति धारया मन्द्रया याति धारया
तवाहं सोम रारण सख्य इन्दो दिवेदिवे पुरूणि बभ्रो नि चरन्ति मामव परिधींरति तां इहि
मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि
अभि सोमास आयवः पवन्ते मद्यं मदम् समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः
पुनानः सोम जागृविरव्या वारैः परि प्रियः त्वं विप्रो अभवो ऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः
इन्द्राय पवते मदः सोमो मरुत्वते सुतः सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः
पवस्व वाजसातमो ऽभि विश्वानि वार्या त्वं समुद्रः प्रथमे विधर्मं देवेभ्यं सोम मत्सरः
पवमाना असृक्षत पवित्रमति धारया मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष अश्वं न त्वा वाजिनं मर्जयन्तो ऽच्छा बर्ही रशनाभिर्नयन्ति
प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन्
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः
अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः
अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशन्त वाणीः वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि
अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः
कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः