प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः घ्नन्तः कृष्णामप त्वचम्
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः नुदस्वादेवयुं जनम्
अया पवस्व धारया यया सूर्यमरोचयः हिन्वानो मानुषीरपः
स पवस्व य आविथेन्द्रं वृत्राय हन्तवे वव्रिवांसं महीरपः
अया वीती परि स्रव यस्त इन्दो मदेष्वा अवाहन्नवतीर्नव
परि द्युक्षं सनद्रायिं भरद्वाजं नो अन्धसा स्वानो अर्ष पवित्र आ
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः सं सूर्येण दिद्युते
आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे पान्तमा पुरुस्पृहम्
अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय पुनीहीन्द्राय पातवे
तरत्स मन्दी धावति धारा सुतस्यान्धसः तरत्स मन्दी धावति
आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् अस्मे श्रवांसि धारय
अनु प्रत्नास आयवः पदं नवीयो अक्रमुः रुचे जनन्त सूर्यम्
अर्षा सोम द्युमत्तमो ऽभि द्रोणानि रोरुवत् सीदन्योनौ योनेष्वा
वृषा सोम द्युमां असि वृषा देव वृषव्रतः वृषा धर्माणि दध्रिषे
इषे पवस्व धारया मृज्यमानो मनीषिभिः इन्दो रुचाभि गा इहि
मन्द्रया सोम धारया वृषा पवस्व देवयुः अव्यो वारेभिरस्मयुः
अया सोम सुकृत्यपा हिन्दान इद्वृषायसे
अयं विचर्षणिर्हितः पवमानः स चेतति हिन्वान आप्यं बृहत्
प्र ण इन्दो महे तु न ऊर्मिं न बिभ्रदर्षसि अभि देवां अयास्यः
अपघ्नन्पवते मृधो ऽप सोमो अराव्णः गच्छन्निन्द्रस्य निष्कृतम्
पुनानः सोम धारयापो वसानो अर्षसि आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः
परीतो षिञ्चता सुतं सोमो य उत्तमं हविः दधन्वां यो नर्यो अप्स्वान्तरा सुषाव सोममद्रिभिः
आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे
प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम्
सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् अश्वयेव हरिता याति धारया मन्द्रया याति धारया
तवाहं सोम रारण सख्य इन्दो दिवेदिवे पुरूणि बभ्रो नि चरन्ति मामव परिधींरति तां इहि
मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि
अभि सोमास आयवः पवन्ते मद्यं मदम् समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः
पुनानः सोम जागृविरव्या वारैः परि प्रियः त्वं विप्रो अभवो ऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः
इन्द्राय पवते मदः सोमो मरुत्वते सुतः सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः