तिस्रो वाच उदीरते गावो मिमन्ति धेनवः हरिरेति कनिक्रदत्
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः अर्कस्य योनिमासदम्
असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः श्येनो न योनिमासदत्
पवस्व दक्षसाधनो देवेभ्यः पीतये हरे मरुद्भ्यो वायवे मदः
परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् मदेषु सर्वधा असि
परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः स्वानैर्याति कविक्रतुः
प्र सोमासो मदच्युतः श्रवसे नो मघोनः सुता विदथे अक्रमुः
प्र सोमासो विपश्चितो ऽपो नयन्त ऊर्मयः वनानि महिषा इव
पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने विश्वा अप द्विषो जहि
वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे पवमान स्वर्दृशम्
इन्दुः पविष्ट चेतनः प्रियः कवीनां मतिः सृजदश्वं रथीरिव
असृक्षत प्र वाजिनो गव्या सोमासो अश्वया शुक्रासो वीरयाशवः
पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः वायुमा रोह धर्मणा
पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् ज्योतिर्वैश्वानरं बृहत्
परि स्वानास इन्दवो मदाय बर्हणा गिरा मधो अर्षन्ति धारया
परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः कारुं बिभ्रत्पुरुस्पृहम्
षष्ठ प्रथमो ऽर्धः उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् इन्दुं देवा अयासिषुः
पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः शुम्भन्ति विप्रं धीतिभिः
आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः इन्दुरिन्द्राय धीयते
असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः कार्ष्मन्वाजी न्यक्रमीत्
प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः घ्नन्तः कृष्णामप त्वचम्
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः नुदस्वादेवयुं जनम्
अया पवस्व धारया यया सूर्यमरोचयः हिन्वानो मानुषीरपः
स पवस्व य आविथेन्द्रं वृत्राय हन्तवे वव्रिवांसं महीरपः
अया वीती परि स्रव यस्त इन्दो मदेष्वा अवाहन्नवतीर्नव
परि द्युक्षं सनद्रायिं भरद्वाजं नो अन्धसा स्वानो अर्ष पवित्र आ
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः सं सूर्येण दिद्युते
आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे पान्तमा पुरुस्पृहम्
अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय पुनीहीन्द्राय पातवे
तरत्स मन्दी धावति धारा सुतस्यान्धसः तरत्स मन्दी धावति