शं पदं मघं रयीषिणो न काममव्रतो हिनोति न स्पृशद्रयिम्
सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः
आ याहि वनसा सह गावः सचन्त वर्त्तनिं यदूधभिः
उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र
अर्चन्त्यर्कं मरुतः स्वर्क्का आ स्तोभति श्रुतो युवा स इन्द्रः
प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते
अचेत्यग्निश्चिकितिर्हव्यवाड्न सुमद्रथः
अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः
भगो न चित्रो अग्निर्महोनां दधाति रत्नम्
विश्वस्य प्र स्तोभ पुरो वा सन्यदि वेह नूनम्
उषा अप स्वसुष्टमः सं वर्त्तयति वर्त्तनिं सुजातता
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः
वि स्रुतयो यथा पथ इन्द्र त्वद्यन्तु रातयः
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः
ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र
इन्द्रो विश्वस्य राजति
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् स ईं ममाद महि कर्म कर्त्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम्
अयं सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्म ब्रध्नः समीचीरुषसः समैरयदरेपसः सोचेतसः स्वसरे मन्युमन्तश्चिता गोः
एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्ता राजेव सत्पतिः हवामहे त्वा प्रयस्वन्तः सुतेष्वा पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये
तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं श्रवांसि भूरिः मंहिष्ठो गीर्भिरा च यज्ञियो ववर्त्त राये नो विश्वा सुपथा कृणोतु वज्री
अस्तु श्रौष्ट्पुरो अग्निं धिया दध आ नु त्यच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे यद्ध क्राणा विवस्वते नाभा सन्दाय नव्यसे अध प्र नूनमुप यन्ति धीतयो देवांअच्छा न धीतयः
प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् प्र शर्धाय प्र यज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे
अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः
अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः
अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः
तव त्यन्नर्यं नृतो ऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् यो देवस्य शवसा प्रारिणा असु रिणन्नपः भुवो विश्वमभ्यदेवमोजसा विदेदूर्जं शतक्रतुर्विदेदिषम्
इत्यैन्द्रं पर्व .. पावमान उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे उग्रं शर्म महि श्रवः
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया इन्द्राय पातवे सुतः
वृषा पवस्व धारया मरुत्वते च मत्सरः विश्वा दधान ओजसा
यस्ते मदो वरेण्यस्तेना पवस्वान्धसा देवावीरघशंसहा