महे नो अद्य बोधयोषो राये दिवित्मती यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते
भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे
क्रत्वा महां अनुष्वधं भीम आ वावृते शवः श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवां दधे हस्तयोर्वज्रमायसम्
स घा तं वृषणं रथमधि तिष्ठाति गोविदम् यः पात्रं हारियोजनं पूर्णमिन्द्रा चिकेतति योजा न्विन्द्र ते हरी
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः अस्तमर्वन्त आशवो ऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर
न तमंहो न दुरितं देवासो अष्ट मर्त्यम् सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः
परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय
पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः द्विषस्तरध्या ऋणया न ईरसे
पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम
पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय
इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय
अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये वाजां अभि पवमान प्र गाहसे
क ईं व्यक्ता नरः सनीडा रुद्रस्य मर्या अथ स्वश्वाः
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ऋध्यामा त ओहैः
आविर्मर्या आ वाजं वाजिनो अग्मं देवस्य सवितुः सवम् स्वर्गां अर्वन्तो जयत
पवस्व सोम द्युम्नी सुधारो महां अवीनामनुपूर्व्यः
पञ्चम द्वितीयो ऽर्धः विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे
ब्रह्माण इन्द्रं महयन्तो हन्तवा उ
अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तम्
शं पदं मघं रयीषिणो न काममव्रतो हिनोति न स्पृशद्रयिम्
सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः
आ याहि वनसा सह गावः सचन्त वर्त्तनिं यदूधभिः
उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र
अर्चन्त्यर्कं मरुतः स्वर्क्का आ स्तोभति श्रुतो युवा स इन्द्रः
प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते
अचेत्यग्निश्चिकितिर्हव्यवाड्न सुमद्रथः
अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः
भगो न चित्रो अग्निर्महोनां दधाति रत्नम्
विश्वस्य प्र स्तोभ पुरो वा सन्यदि वेह नूनम्