आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः दृढा चिद्यमयिष्णवः
आ याह्ययमिन्दवे ऽश्वपते गोपत उर्वरापते सोमं सोमपते पिब
त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि संस्थे जनस्य गोमतः
गावश्चिद्धा समन्यवः सजात्येन मरुतः सबन्धवः रिहते ककुभो मिथः
त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे आ वीरं पृतनासहम्
अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे उदेव ग्मन्त उदभिः
सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे अभि त्वामिन्द्र नोनुमः
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तो ऽवस्यवः वज्रिञ्चित्रं हवामहे
स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम्
इत्था हि सोम इन्मदो ब्रह्म चकार शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम्
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नो ऽविषत्
इन्द्र तुभ्यमिदद्रिवो ऽनुत्तं वज्रिन्वीर्यम् यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यम्
प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपो ऽर्चन्ननु स्वराज्यम्
यदुदीरत आजयो धृष्णवे धीयते धनम् युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधो ऽस्मां इन्द्र वसौ दधः
अक्षन्नमीमदन्त ह्यव प्रिया अधूषत अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी
उपो षु शृणुही गिरो मघवन्मातथा इव कदा नः सूनृतावतः कर इदर्थयास इद्योजा न्विन्द्र ते हरी
चन्द्रमा अप्स्वान्तरा सुपर्णो धावते दिवि न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी
प्रति प्रियतमं रथं वृषणं वसुवाहनम् स्तोता वामश्विनावृशि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवम्
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर
आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे
महे नो अद्य बोधयोषो राये दिवित्मती यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते
भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे
क्रत्वा महां अनुष्वधं भीम आ वावृते शवः श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवां दधे हस्तयोर्वज्रमायसम्
स घा तं वृषणं रथमधि तिष्ठाति गोविदम् यः पात्रं हारियोजनं पूर्णमिन्द्रा चिकेतति योजा न्विन्द्र ते हरी
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः अस्तमर्वन्त आशवो ऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर
न तमंहो न दुरितं देवासो अष्ट मर्त्यम् सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः
परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय
पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः द्विषस्तरध्या ऋणया न ईरसे
पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम
पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय