त्वं नश्चित्र ऊत्या वसो राधांसि चोदय अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः
त्वमित्सप्रथा अस्यग्ने त्रातरृतः कविः त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः
आ नो अग्ने वयोवृधं रयिं पावक शंस्यम् रास्वा च न उपमाते पुरुस्पृहं सुनीती सुयशस्तरम्
यो विश्वा दयते वसु होता मन्द्रो जनानाम् मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये
एना वो अग्निं नमसोर्जो नपातमा हुवे प्रियं चेतिष्ठमरतिं स्वाध्वरं विश्वस्य दूतममृतम्
शेषे वनेषु मातृषु सं त्वा मर्तास इन्धते अतन्द्रो हव्यं वहसि हविष्कृत आदिद्देवेषु राजसि
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः उपो षु जातमार्यस्य नक्षन्तु नो गिरः
अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे ऋचा यामि मरुतो ब्रह्मणस्पते देवा अवो वरेण्यम्
अग्निमीडिष्वावसे गाथाभिः शीरशोचिषम् अग्निं राये पुरुमीढ श्रुतं नरो ऽग्निः सुदीतये छर्दिः
श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः आ सीदतु बर्हिषि मित्रो अर्यमा प्रातर्यावभिरध्वरे
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि
अध ज्मो अध वा दिवो बृहतो रोचनादधि अया तन्वा गिरा ममा जाता सुक्रतो पृण
कायमानो वना त्वं यन्मात्र्^ईरजगन्नपः न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभुवः
नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः
प्रथम द्वितीयो ऽर्धः देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् उद्वा सिञ्जध्वमुप वा पृणध्वमादिद्वो देव ओहते
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे
प्र यो राये निनीषति मर्तो यस्ते वसो दाशत् स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम्
प्र वो यह्वं पुरूणां विशां देवयतीनाम् अग्निं सूक्तेभिर्वचोभिर्वृणीमहे यंसमिदन्य इन्धते
अयमग्निः सुवीर्यस्येशे हि सौभगस्य राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम्
त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे त्वं पोता विश्ववार प्रचेता ताक्षि यासि च वार्यम्
सखायस्त्वा ववृमहे देवं मर्तास ऊतये अपां नपातं सुभगं सुदंससं सुप्रतूर्तिमनेहसम्
आ जुहोता हविषा मर्जयध्वं नि होतारं गृहपतिं दधिध्वम् इडस्पदे नमसा रातहव्यं सपर्यता यजतं पस्त्यानाम्
चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावन्वेति धातवे अनूधा यदजीजनदधा चिदा ववक्षत्सद्यो महि दूत्यां चरन्
इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व संवेशनस्तन्वे चारुरेधि प्रियो देवानां परमे जनित्रे
इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् कविं सम्राजमतिथिं जनानामासन्नाः पात्रं जनयन्त देवाः
वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरग्ने जनयन्त देवाः तं त्वा गिरः सुष्टुतयो वाजयन्त्याजिं न गिर्ववाहो जिग्युरश्वाः
आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम्
इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन नरो हव्येभिरीडते सबाध आग्निरग्रमुषसामशोचि