इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् विदे वृधस्य दक्षस्य महां हि षः
तमु अभि प्र गायत पुरुहूतं पुरुष्टुतम् इन्द्रं गीर्भिस्तविषमा विवासत
तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् उ लोककृत्नुमद्रिवो हरिश्रियम्
यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये यद्वा मरुत्सु मन्दसे समिन्दुभिः
एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः एवा हि वीरस्तवते सदावृधः
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु प्र राधांसि चोदयते महित्वना
एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरम् कृष्टीर्यो विश्वा अभ्यस्त्येक इत्
इन्द्राय साम गायत विप्राय बृहते बृहत् ब्रह्मकृते विपश्चिते पनस्यवे
य एक इद्विदयते वसु मर्ताय दाशुषे ईशानो अप्रतिष्कुत इन्द्रो अङ्ग
सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे स्तुष ऊ षु वो नृतमाय धृष्णवे
पञ्चम प्रथमो ऽर्धः गृणे तदिन्द्र ते शव उपमां देवतातये यद्धंसि वृत्रमोजसा शचीपते
यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् अयं स सोम इन्द्र ते सुतः पिब
एन्द्र नो गधि प्रिय सत्राजिदगोह्य गिरिर्न विश्वतः पृथुः पतिर्दिवः
य इन्द्र सोमपातमो मदः शविष्ठ चेतति येना हंसि न्यात्रिणं तमीमहे
तुचे तुनाय तत्सु नो द्राधीय आयुर्जीवसे आदित्यासः समहसः कृणोतन
वेत्था हि निरृतीनां वज्रहस्त परिवृजम् अहरहः शुन्ध्युः परिपदामिव
अपामीवामप स्त्रिधमप सेधत दुर्मतिम् आदित्यासो युयोतना नो अंहसः
पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः सोतुर्बाहुभ्यां सुयतो नार्वा
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि युधेदापित्वमिच्छसे
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे सखाय इन्द्रमूतये
आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः दृढा चिद्यमयिष्णवः
आ याह्ययमिन्दवे ऽश्वपते गोपत उर्वरापते सोमं सोमपते पिब
त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि संस्थे जनस्य गोमतः
गावश्चिद्धा समन्यवः सजात्येन मरुतः सबन्धवः रिहते ककुभो मिथः
त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे आ वीरं पृतनासहम्
अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे उदेव ग्मन्त उदभिः
सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे अभि त्वामिन्द्र नोनुमः
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तो ऽवस्यवः वज्रिञ्चित्रं हवामहे
स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम्
इत्था हि सोम इन्मदो ब्रह्म चकार शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम्