श्रत्ते दधामि प्रथमाय मन्यवे ऽहन्यद्दस्युं नर्यं विवेरपः उभे यत्वा रोदसी धावतामनु भ्यसात्ते शुष्मात्पृथिवी चिदद्रिवः
समेत विश्वा ओजसा पतिं दिवो य एक इद्भूरतिथिर्जनानाम् स पूर्व्यो नूतनमाजिगीषं तं वर्त्तनीरनु वावृत एक इत्
इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो न हि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति तद्धर्य नो वचः
चर्षणीधृतं मघवानमुक्थ्यामिन्द्रं गिरो बृहतीरभ्यनूषत वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे
अच्छा व इन्द्रं मतयः स्वर्युवः सध्रीचीर्विश्वा उशतीरनूषत परि ष्वजन्त जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये
अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् यस्य द्यावो न विचरन्ति मानुषं भुजे मंहिष्ठमभि विप्रमर्चत
त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभुवः साकमीरते अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः
घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा
उभे यदिन्द्र रोदसी आपप्राथोषा इव महान्तं त्वा महीनां सम्राजं चर्षणीनाम् देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्
प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हुवेमहि
इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् विदे वृधस्य दक्षस्य महां हि षः
तमु अभि प्र गायत पुरुहूतं पुरुष्टुतम् इन्द्रं गीर्भिस्तविषमा विवासत
तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् उ लोककृत्नुमद्रिवो हरिश्रियम्
यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये यद्वा मरुत्सु मन्दसे समिन्दुभिः
एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः एवा हि वीरस्तवते सदावृधः
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु प्र राधांसि चोदयते महित्वना
एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरम् कृष्टीर्यो विश्वा अभ्यस्त्येक इत्
इन्द्राय साम गायत विप्राय बृहते बृहत् ब्रह्मकृते विपश्चिते पनस्यवे
य एक इद्विदयते वसु मर्ताय दाशुषे ईशानो अप्रतिष्कुत इन्द्रो अङ्ग
सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे स्तुष ऊ षु वो नृतमाय धृष्णवे
पञ्चम प्रथमो ऽर्धः गृणे तदिन्द्र ते शव उपमां देवतातये यद्धंसि वृत्रमोजसा शचीपते
यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् अयं स सोम इन्द्र ते सुतः पिब
एन्द्र नो गधि प्रिय सत्राजिदगोह्य गिरिर्न विश्वतः पृथुः पतिर्दिवः
य इन्द्र सोमपातमो मदः शविष्ठ चेतति येना हंसि न्यात्रिणं तमीमहे
तुचे तुनाय तत्सु नो द्राधीय आयुर्जीवसे आदित्यासः समहसः कृणोतन
वेत्था हि निरृतीनां वज्रहस्त परिवृजम् अहरहः शुन्ध्युः परिपदामिव
अपामीवामप स्त्रिधमप सेधत दुर्मतिम् आदित्यासो युयोतना नो अंहसः
पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः सोतुर्बाहुभ्यां सुयतो नार्वा
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि युधेदापित्वमिच्छसे
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे सखाय इन्द्रमूतये