को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात्
चतुर्थ द्वितीयो ऽर्धः गायन्ति त्वा गायत्रिणो ऽर्चन्त्यर्कमर्किणः ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः रथीतमं रथीनां वाजानां सत्पतिं पतिम्
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने
यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः राधस्तन्नो विदद्वस उभयाहस्त्या भर
श्रुदी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति सुवीर्यस्य गोमतो रायस्पूर्धि महां असि
असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् दिवो अमुष्य शासतो दिवं यय दिवावसो
आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः अभि त्वा समनूषत गावो वत्सं न धेनवः
एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु
यो रयिं वो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर अरङ्गमाय जग्मये ऽपश्चादध्वने नरः
आ नो वयोवयःशयं महान्तं गह्वरेष्ठां महान्तं पूर्विनेष्ठाम् उग्रं वचो अपावधीः
आ त्वा रथं यथोतये सुम्नाय वर्तयामसि तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम्
स पूर्व्यो महोनां वेनः क्रतुभिरानजे यस्य द्वारा मनुः पिता देवेषु धिय आनजे
यदी वहन्त्याशवो भ्राजमाना रथेष्वा पिबन्तो मदिरं मधु तत्र श्रवांसि कृण्वते
त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् इन्द्रं विश्वासाहं नरं शचिष्ठं विश्ववेदसम्
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः सुरभि नो मुखा करत्प्र न आयूंषि तारिषत्
पुरां भिन्दुर्युवा कविरमितौजा अजायत इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः
प्रप्र वस्त्रिष्टुभमिषं वन्दद्वीरायेन्दवे धिया वो मेधसातये पुरन्ध्या विवासति
कश्यपस्य स्वर्विदो यावाहुः सयुजाविति ययोर्विश्वमपि व्रतं यज्ञं धीरा निचाय्य
अर्चत प्रार्चता नरः प्रियमेधासो अर्चत अर्चन्तु पुत्रका उत पुरमिद्धृष्ण्वर्चत
उक्थमिन्द्राय शंस्यं पुरुनिःषिधे शक्रो यथा सुतेषु नो रारणत्सख्येषु च
विश्वानरस्य वस्पतिमनानतस्य शवसः एवैश्च चर्षणीनामूती हुवे रथानाम्
स घा यस्ते दिवो नरो धिया मर्तस्य शमतः ऊती स बृहतो दिवो द्विषो अंहो न तरति
विभोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो अथा नो विश्वचर्षणे द्युम्नं सुदत्र मंहय
वयश्चित्ते पतत्रिणो द्विपाच्चतुष्पादर्जुनि उषः प्रारन्नृतूंरनु दिवो अन्तेभ्यस्परि
अमी ये देवा स्थन मध्य आ रोचने दिवः कद्व ऋतं कदमृतं का प्रत्ना व आहुतिः
ऋचं साम यजामहे याभ्यां कर्माणि कृण्वते वि ते सदसि राजतो यज्ञं देवेषु वक्षतः
विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम्