चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु
त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम
त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् हुवे नु शक्रं पुरुहूतमिन्द्रमिदं हविर्मघवा वेत्विन्द्रः
यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् प्र श्मश्रुभिर्दोधुवदूर्ध्वधा भुवद्वि सेनाभिर्भयमानो वि राधसा
सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृशभं सुवज्रम् हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः
यो नो वनुष्यन्नभिदाति मर्त उगणा वा मन्यमानस्तुरो वा क्षिधी युधा शवसा वा तमिन्द्राभी ष्याम वृषमणस्त्वोताः
यं वृत्रेषु क्षितय यं युक्तेषु तुरयन्तो हवन्ते यं शूरसातौ यमपामुपज्मन्यं विप्रासो वाजयन्ते स इन्द्रः
इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिडया मदन्ता
इन्द्राय गिरो अनिशितसर्गा अपः प्रैरयत्सगरस्य बुध्नात् यो अक्षेणेव चक्रियौ शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम्
आ त्वा सखायः सख्या ववृत्युस्तिरः पुरू चिदर्णवां जगम्याः पितुर्नपातमा दधित वेधा अस्मिन्क्षये प्रतरां दीद्यानः
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात्
चतुर्थ द्वितीयो ऽर्धः गायन्ति त्वा गायत्रिणो ऽर्चन्त्यर्कमर्किणः ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः रथीतमं रथीनां वाजानां सत्पतिं पतिम्
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने
यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः राधस्तन्नो विदद्वस उभयाहस्त्या भर
श्रुदी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति सुवीर्यस्य गोमतो रायस्पूर्धि महां असि
असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् दिवो अमुष्य शासतो दिवं यय दिवावसो
आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः अभि त्वा समनूषत गावो वत्सं न धेनवः
एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु
यो रयिं वो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर अरङ्गमाय जग्मये ऽपश्चादध्वने नरः
आ नो वयोवयःशयं महान्तं गह्वरेष्ठां महान्तं पूर्विनेष्ठाम् उग्रं वचो अपावधीः
आ त्वा रथं यथोतये सुम्नाय वर्तयामसि तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम्
स पूर्व्यो महोनां वेनः क्रतुभिरानजे यस्य द्वारा मनुः पिता देवेषु धिय आनजे
यदी वहन्त्याशवो भ्राजमाना रथेष्वा पिबन्तो मदिरं मधु तत्र श्रवांसि कृण्वते
त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् इन्द्रं विश्वासाहं नरं शचिष्ठं विश्ववेदसम्
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः सुरभि नो मुखा करत्प्र न आयूंषि तारिषत्
पुरां भिन्दुर्युवा कविरमितौजा अजायत इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः
प्रप्र वस्त्रिष्टुभमिषं वन्दद्वीरायेन्दवे धिया वो मेधसातये पुरन्ध्या विवासति