त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः
प्र यो रिरिक्ष ओजसा दिवः सदोभ्यस्परि न त्वा विव्याच रज इन्द्र पार्थिवमति विश्वं ववक्षिथ
असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु
योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरूहूत प्र याहि असो यथा नो ऽविता वृधश्चिद्ददो वसूनि ममदश्च सोमैः
अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानां अरम्णाः महान्तमिन्द्र पर्वतं वि यद्वः सृजद्धारा अव यद्दानवान्हन्
सुष्वाणास इन्द्र स्तुमसि त्वा सनिष्यन्तश्चित्तुविनृम्ण वाजम् आ नो भर सुवितं यस्य कोना तना त्मना सह्यामा त्वोताः
जगृह्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिन्दाः
इन्द्रं नरो नेमधिता हवन्ति यत्पार्या युनजते धियस्ताः शूरो नृषाता श्रवसश्च काम आ गोमति व्रजे भजा त्वं नः
वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यास्मान्निधयेव बद्धान्
नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम्
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः
अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय विरप्शिने वज्रिणे शन्तमानि वचांस्यास्मै स्थविराय तक्षुः
अव द्रप्सो अंशुमतीमतिष्ठदीयानः कृष्णो दशभिः सहस्रैः आवत्तमिन्द्रः शच्या धमन्तमप स्नीहितिं नृमणा अधद्राः
वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान
त्वं ह त्यत्सप्तभ्यो जायमानो ऽशत्रुभ्यो अभवः शत्रुरिन्द्र गूढे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः
मेडिं न त्वा वज्रिणं भृष्टिमन्तं पुरुधस्मानं वृषभं स्थिरप्स्नुम् करोष्यर्यस्तरुषीर्दुवस्युरिन्द्र द्युक्षं वृत्रहणं गृणीषे
प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् विशः पूर्वीः प्र चर चर्षणिप्राः
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ शृण्वन्तमुग्रमूतये समत्सु ध्नन्तं वृत्राणि सञ्जितं धनानि
उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ आ यो विश्वानि श्रवसा ततानोपश्रोता म ईवतो वचांसि
चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु
त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम
त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् हुवे नु शक्रं पुरुहूतमिन्द्रमिदं हविर्मघवा वेत्विन्द्रः
यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् प्र श्मश्रुभिर्दोधुवदूर्ध्वधा भुवद्वि सेनाभिर्भयमानो वि राधसा
सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृशभं सुवज्रम् हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः
यो नो वनुष्यन्नभिदाति मर्त उगणा वा मन्यमानस्तुरो वा क्षिधी युधा शवसा वा तमिन्द्राभी ष्याम वृषमणस्त्वोताः
यं वृत्रेषु क्षितय यं युक्तेषु तुरयन्तो हवन्ते यं शूरसातौ यमपामुपज्मन्यं विप्रासो वाजयन्ते स इन्द्रः
इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिडया मदन्ता
इन्द्राय गिरो अनिशितसर्गा अपः प्रैरयत्सगरस्य बुध्नात् यो अक्षेणेव चक्रियौ शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम्
आ त्वा सखायः सख्या ववृत्युस्तिरः पुरू चिदर्णवां जगम्याः पितुर्नपातमा दधित वेधा अस्मिन्क्षये प्रतरां दीद्यानः