इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः हित्वा शिरो जिह्वया रारपच्चरत्त्रिंशत्पदा न्यक्रमीत्
इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः आ शं तम शं तमाभिरभिष्टिभिरा स्वापे स्वापिभिः
इत ऊती वो अजरं प्रहेतारमप्रहितम् आशुं जेतारं हेतारं रथीतममतूर्तं तुग्रियावृधम्
मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि
सुनोत सोमपाव्ने सोममिन्द्राय वज्रिणे पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः
यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम् सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे
शचीभिर्नः शचीवसू दिवानक्तं दिशस्यतम् मा वां रातिरुप दसत्कदा च नास्मद्रातिः कदा च न
यदा कदा च मीढुषे स्तोता जरेत मर्त्यः आदिद्वन्देत वरुणं विपा गिरा धर्त्तारं विव्रतानाम्
पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे यः सम्मिश्लो हर्योर्यो हिरण्यय इन्द्रो वज्री हिरण्ययः
उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत्
महे च न त्वाद्रिवः परा शुल्काय दीयसे न सहस्राय नायुताये वज्रिवो न शताय शतामघ
वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः माता च मे छदयथः समा वसो वसुत्वनाय राधसे
चतुर्थ प्रथमो ऽर्धः इम इन्द्राय सुन्विरे सोमासो दध्याशिरः तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ
इम इन्द्र मदाय ते सोमाश्चिकित्र उकिथनः मधोः पपान उप नो गिरः शृणु रास्व स्तोत्राय गिर्वणः
आ त्वाद्य सबर्दुघां हुवे गायत्रवेपसम् इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरङ्कृतम्
न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीडवः यच्छिक्षसि स्तुवते मावते वसु न किष्टदा मिनाति ते
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे अयं यः पुरो विभिनत्योजसा मन्दानः शिप्र्यन्धसः
यदिन्द्र शासो अव्रतं च्यावया सदसस्परि अस्माकमंशुं मघवन्पुरुस्पृहं वसव्ये अधि बर्हय
त्वष्टा नो दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणं वचः
कदा च न स्तरीरसि नेन्द्र सश्चसि दाशुषे उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते
युङ्क्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि
त्वामिदा ह्यो नरो ऽपीप्यन्वज्रिन्भूर्णयः स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि
प्रत्यु अदर्श्यायत्यूच्छन्ती दुहिता दिवः अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरि
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना अयं वामह्वे ऽवसे शचीवसू विशंविशं हि गच्छथः
कु ष्ठः को वामश्विना तपानो देवा मर्त्यः घ्नता वामश्मया क्षपमाणोंशुनेत्थमु आदुन्यथा
अयं वां मधुमत्तमः सुतः सोमो दिविष्टिषु तमश्विना पिबतं तिरो अह्न्यं धत्तं रत्नानि दाशुषे
आ त्वा सोमस्य गल्दया सदा याचन्नहं ज्या भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत्
अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति उपो नूनं युयुजे वृष्णा हरी आ च जगाम वृत्रहा
अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः पुरूवसुर्हि मघवन्बभूविथ भरेभरे च हव्यः
यदिन्द्र यावतस्त्वमेतावदहमीशीय स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषम्