क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः
वयमेनमिदा ह्योपीपेमेह वज्रिणम् तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते
यो राजा चर्षणीनां याता रथेभिरध्रिगुः विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे
यत इन्द्र भयामहे ततो नो अभयं कृधि मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि
वास्तोष्पते ध्रुवा स्थूणां सत्रं सोम्यानाम् द्रप्सः पुरां भेत्ता शश्वतीनामिन्द्रो मुनीनां सखा
बण्महां असि सूर्य बडादित्य महां असि महस्ते सतो महिमा पनिष्टम मह्ना देव महां असि
अश्वी रथी सुरूप इद्गोमां यदिन्द्र ते सखा श्वात्रभाजा वयसा सचते सदा चन्द्रैर्याति सभामुप
यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी
यदिन्द्र प्रागपागुदग्न्यग्वा हूयसे नृभिः सिमा पुरू नृषूतो अस्यानवे ऽसि तुर्वशे
कस्तमिन्द्र त्वा वसवा मर्त्यो दधर्षति श्रद्धा हि ते मघवन्पार्ये दिवि वाजी वाजं सिषासति
इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः हित्वा शिरो जिह्वया रारपच्चरत्त्रिंशत्पदा न्यक्रमीत्
इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः आ शं तम शं तमाभिरभिष्टिभिरा स्वापे स्वापिभिः
इत ऊती वो अजरं प्रहेतारमप्रहितम् आशुं जेतारं हेतारं रथीतममतूर्तं तुग्रियावृधम्
मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि
सुनोत सोमपाव्ने सोममिन्द्राय वज्रिणे पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः
यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम् सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे
शचीभिर्नः शचीवसू दिवानक्तं दिशस्यतम् मा वां रातिरुप दसत्कदा च नास्मद्रातिः कदा च न
यदा कदा च मीढुषे स्तोता जरेत मर्त्यः आदिद्वन्देत वरुणं विपा गिरा धर्त्तारं विव्रतानाम्
पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे यः सम्मिश्लो हर्योर्यो हिरण्यय इन्द्रो वज्री हिरण्ययः
उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत्
महे च न त्वाद्रिवः परा शुल्काय दीयसे न सहस्राय नायुताये वज्रिवो न शताय शतामघ
वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः माता च मे छदयथः समा वसो वसुत्वनाय राधसे
चतुर्थ प्रथमो ऽर्धः इम इन्द्राय सुन्विरे सोमासो दध्याशिरः तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ
इम इन्द्र मदाय ते सोमाश्चिकित्र उकिथनः मधोः पपान उप नो गिरः शृणु रास्व स्तोत्राय गिर्वणः
आ त्वाद्य सबर्दुघां हुवे गायत्रवेपसम् इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरङ्कृतम्
न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीडवः यच्छिक्षसि स्तुवते मावते वसु न किष्टदा मिनाति ते
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे अयं यः पुरो विभिनत्योजसा मन्दानः शिप्र्यन्धसः
यदिन्द्र शासो अव्रतं च्यावया सदसस्परि अस्माकमंशुं मघवन्पुरुस्पृहं वसव्ये अधि बर्हय
त्वष्टा नो दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणं वचः
कदा च न स्तरीरसि नेन्द्र सश्चसि दाशुषे उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते