न हि वश्चरमं च न वसिष्ठः परिमंस्ते अस्माकमद्य मरुतः सुते सचा विश्वे पिबन्तु कामिनः
मा चिदन्यद्वि शंसत सखायो मा रिषण्यत इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत
तृतीय द्वितीयो ऽर्धः न किष्टं कर्मणा नशद्यश्चकार सदावृधम् इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः सन्धाता सन्धिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः मा त्वा के चिन्नि येमुरिन्न पाशिनो ऽति धन्वेव तां इहि
त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः
त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये
इमा उ त्वा पुरूवसो गिरो या मम पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैरनूषत
उदु त्ये मधुमत्तमा गिर स्तोमास ईरते सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब
शग्ध्यूषु शचीपत इन्द्र विश्वाभिरूतिभिः भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि
या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः स्तोतारमिन्मघवन्नस्य ये च त्वे वृक्तबर्हिषः
प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो वरूथ्ये वरुणे छन्द्यं वचः स्तोत्रं राजसु गायत
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम्
प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा
बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि
मा न इन्द्र परा वृणग्भवा नः सधमाद्ये त्वं न ऊती त्वमिन्न आप्यम् मा न इन्द्र परा वृणक्
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते
यदिन्द्र नाहुषीष्वा ओजो नृम्णं च कृष्टिषु यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौंस्या
सत्यमित्था वृषेदसि वृषजूतिर्नो ऽविता वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः
यच्छक्रासि परावति यदर्वावति वृत्रहन् अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावां आ विवासति
अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा
इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तये छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः
न सीमदेव आप तदिषं दीर्घायो मर्त्यः एतग्वा चिद्या एतशो युयोजत इन्द्रो हरी युयोजते
आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम
तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते