एन्द्र पृक्षु कासु चिन्नृम्णं तनूषु धेहि नः सत्राजिदुग्र पौंस्यम्
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः एवा ते राध्यं मनः
अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः
त्वामिद्धि हवामहे सातौ वाजस्य कार्वः त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः
अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे
तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम्
तरणिरित्सिषासति वाजं पुरन्ध्या युजा आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम्
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः आपिर्नो बोधि सधमाद्ये वृधे ऽस्मां अवन्तु ते धियः
त्वं ह्येहि चेरवे विदा भगं वसुत्तये उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये
न हि वश्चरमं च न वसिष्ठः परिमंस्ते अस्माकमद्य मरुतः सुते सचा विश्वे पिबन्तु कामिनः
मा चिदन्यद्वि शंसत सखायो मा रिषण्यत इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत
तृतीय द्वितीयो ऽर्धः न किष्टं कर्मणा नशद्यश्चकार सदावृधम् इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः सन्धाता सन्धिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः मा त्वा के चिन्नि येमुरिन्न पाशिनो ऽति धन्वेव तां इहि
त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः
त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये
इमा उ त्वा पुरूवसो गिरो या मम पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैरनूषत
उदु त्ये मधुमत्तमा गिर स्तोमास ईरते सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब
शग्ध्यूषु शचीपत इन्द्र विश्वाभिरूतिभिः भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि
या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः स्तोतारमिन्मघवन्नस्य ये च त्वे वृक्तबर्हिषः
प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो वरूथ्ये वरुणे छन्द्यं वचः स्तोत्रं राजसु गायत
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम्
प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा
बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि
मा न इन्द्र परा वृणग्भवा नः सधमाद्ये त्वं न ऊती त्वमिन्न आप्यम् मा न इन्द्र परा वृणक्