इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः गावो वत्सं न धेनवः
इन्द्रा नु पूषणा वयं सख्याय स्वस्तये हुवेम वाजसातये
न कि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन् न क्येवं यथा त्वम्
तरणिं वो जनानां त्रदं वाजस्य गोमतः समानमु प्र शंसिषम्
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत सजोषा वृषभं पतिम्
सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा मित्रास्पान्त्यद्रुहः
यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् वसु स्पार्हं तदा भर
श्रुतं वो वृत्रहन्तमं प्र चर्षणीनाम् आशिषे राधसे महे
अरं त इन्द्र श्रवसे गमेम शूर त्वावतः अरं शक्र परेमणि
धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् इन्द्र प्रातर्जुषस्व नः
अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः विश्वा यदजय स्पृधः
इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः तेषां मत्स्व प्रभूवसो
तुभ्यं सुतासः सोमाः स्तीर्णं बर्हिर्विभावसो स्तोतृभ्य इन्द्र मृडय
आ व इन्द्र कृविं यथा वाजयन्तः शतक्रतुम् मंहिष्ठं सिञ्च इन्दुभिः
अतश्चिदिन्द्र न उपा याहि शतवाजया इषा सहस्रवाजया
आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् क उग्राः के ह शृण्विरे
बृबदुक्थं हवामहे सृप्रकरस्नमूतये साधः कृण्वन्तमवसे
ऋजुनीती नो वरुणो मित्रो नयति विद्वान् अर्यमा देवैः सजोषाः
दूरादिहेव यत्सतो ऽरुणप्सुरशिश्वितत् वि भानुं विश्वथातनत्
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् मध्वा रजांसि सुक्रतू
उदु त्ये सूनवो गिरः काष्ठा यज्ञेष्वत्नत वाश्रा अभिज्ञु यातवे
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् समूढमस्य पांसुले
अतीहि मन्युषाविणं सुषुवांसमुपेरय अस्य रातौ सुतं पिब
कदु प्रचेतसे महे वचो देवाय शस्यते तदिध्यस्य
उक्थं च न शस्यमानं नागो रयिरा चिकेत न गायत्रं गीयमानम्
इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः हरिवान्त्सुतानां सखा
आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः महां इव युवजानिः
कदा वसो स्तोत्रं हर्यत आ अव श्मशा रुधद्वाः दीर्घं सुतम् वाताप्याय
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूं रनु तवेदं सख्यमस्तृतम्
वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः त्वं नो जिन्व सोमपाः