आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् एदं बर्हिः सदो मम
महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः दुराधर्षं वरुणस्य
त्वावतः पुरूवसो वयमिन्द्र प्रणेतः स्मसि स्थातर्हरीणाम्
तृतीय प्रथमो ऽर्धः उत्त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः अव ब्रह्मद्विषो जहि
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे इन्द्र त्वादातमिद्यशः
सदा व इन्द्रश्चर्कृषदा उपो नु स सपर्यन् न देवो वृतः शूर इन्द्रः
आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः न त्वामिन्द्राति रिच्यते
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः इन्द्रं वाणीरनूषत
इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् वाजी ददातु वाजिनम्
इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् स हि स्थिरो विचर्षणिः
इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः गावो वत्सं न धेनवः
इन्द्रा नु पूषणा वयं सख्याय स्वस्तये हुवेम वाजसातये
न कि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन् न क्येवं यथा त्वम्
तरणिं वो जनानां त्रदं वाजस्य गोमतः समानमु प्र शंसिषम्
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत सजोषा वृषभं पतिम्
सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा मित्रास्पान्त्यद्रुहः
यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् वसु स्पार्हं तदा भर
श्रुतं वो वृत्रहन्तमं प्र चर्षणीनाम् आशिषे राधसे महे
अरं त इन्द्र श्रवसे गमेम शूर त्वावतः अरं शक्र परेमणि
धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् इन्द्र प्रातर्जुषस्व नः
अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः विश्वा यदजय स्पृधः
इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः तेषां मत्स्व प्रभूवसो
तुभ्यं सुतासः सोमाः स्तीर्णं बर्हिर्विभावसो स्तोतृभ्य इन्द्र मृडय
आ व इन्द्र कृविं यथा वाजयन्तः शतक्रतुम् मंहिष्ठं सिञ्च इन्दुभिः
अतश्चिदिन्द्र न उपा याहि शतवाजया इषा सहस्रवाजया
आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् क उग्राः के ह शृण्विरे
बृबदुक्थं हवामहे सृप्रकरस्नमूतये साधः कृण्वन्तमवसे
ऋजुनीती नो वरुणो मित्रो नयति विद्वान् अर्यमा देवैः सजोषाः
दूरादिहेव यत्सतो ऽरुणप्सुरशिश्वितत् वि भानुं विश्वथातनत्
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् मध्वा रजांसि सुक्रतू