बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित्
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वम्
अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युरिन्द्रः दुश्च्यवनः पृतनाषाडयुध्यो ऽस्माकं सेना अवतु प्र युत्सु
इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम्
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां उग्रम् महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्
उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु अस्माकं वीरा उत्तरे भवन्त्वस्मां उ देवा अवता हवेषु
असौ या सेना मरुतः परेषामभ्येति न ओजसा तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात्
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम्
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ
अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः
कङ्काः सुपर्णा अनु यन्त्वेनान्गृध्राणामन्नमसावस्तु सेना मैषां मोच्यघहारश्च नेन्द्र वयांस्येनाननुसंयन्तु सर्वान्
अमित्रसेनां मघवन्नस्माञ्छत्रुयतीमभि उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः यो अस्मां अभिदासत्यधरं गमया तमः
इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ तौ युञ्जीत प्रथमौ योग आगते याभ्यां जितमसुराणां सहो महत्
मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु
अन्धा अमित्रा भवताशीर्षाणो ऽहय इव तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम्
यो नः स्वो ऽरणो यश्च निष्ट्यो जिघांसति देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरं शर्म वर्म ममान्तरम्
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः सृकं संशाय पविमिन्द्र तिग्मं वि शत्रूं ताढि वि मृधो नुदस्व
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिर्व्यशेमहि देवहितं यदायुः
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु
ॐ स्वस्ति नो बृहस्पतिर्दधातु