तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि
तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः तमित्समानं वनिनश्च वीरुधो ऽन्तर्वतीश्च सुवते च विश्वहा
अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति महिषीव वि जायते
यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः
अग्निर्जागार तमृचः कामयन्तेग्निर्जागार तमु सामानि यन्ति अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः
नमः सखिभ्यः पूर्वसद्भ्यो नमः साकन्निषेभ्यः युञ्जे वाचं शतपदीम्
युञ्जे वाचं शतपदीं गाये सहस्रवर्त्तनि गायत्रं त्रैष्टुभं जगत्
गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृता देवा ओकांसि चक्रिरे
अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः सूर्यो ज्योतिर्ज्योतिः सूर्यः
पुनरूर्जा नि वर्त्तस्व पुनरग्न इषायुषा पुनर्नः पाह्यंहसः
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया विश्वप्स्न्या विश्वतस्परि
यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् स्तोता मे गोसखा स्यात्
शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे यदहं गोपतिः स्याम्
धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते गामश्वं पिप्युषी दुहे
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन महे रणाय चक्षसे
यो वः शिवतमो रसस्तस्य भाजयतेह नः उशतीरिव मातरः
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ आपो जनयथा च नः
वात आ वातु बेषजं शम्भु मयोभु नो हृदे प्र न अयूंषि तारिषत्
उत वात पितासि न उत भ्रातोत नः सखा स नो जीवातवे कृधि
यददो वात ते गृहे ऽमृतं निहितं गुहा तस्यो नो देहि जीवसे
अभि वाजी विश्वरूपो जनित्रं हिरण्ययं बिभ्रदत्कं सुपर्णः सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान
अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः
अयं सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः
नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम्
ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यञ्चित्रा बिभ्रदस्यायुधानि वसानो अत्कं सुरभिं दृशे कं स्वर्ण नाम जनत प्रियाणि
द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि
नवम तृतीयो ऽर्धः आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् सङ्क्रन्दनो ऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः
सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा
स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन सं सृष्टजित्सोमपा बाहुशर्ध्यूग्रधन्वा प्रतिहिताभिरस्ता
बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम्