प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् विशः पूर्वीः प्र चर चर्षणिप्राः
उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः तस्य व्रतानि न मिनन्ति धीराः
इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै हर्यश्वाय बर्हया समापीन्
यदिन्द्र यावतस्त्वमेतावदहमीशीय स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषम्
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न
श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् कृष्वा दुवांस्यन्तमा सचेमा
न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् सदा ते नाम स्वयशो विवक्मि
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् मारे अस्मन्मघवञ्ज्योक्कः
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रह अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु
त्वं सिन्धूंरवासृजो ऽधराचो अहन्नहिम् अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यम् तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु
वि षु विश्वा अरातयो ऽर्यो नशन्त नो धियः अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु
रेवां इद्रेवत स्तोता स्यात्त्वावतो मघोनः प्रेदु हरिवः सुतस्य
उक्थं च न शस्यमानं नागो रयिरा चिकेत न गायत्रं गीयमानम्
मा न इन्द्र पीयत्नवे मा परा दाः शिक्षा शचीवः शचीभिः
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् दिवो अमुष्य शासतो दिवं यय दिवावसो
अत्रा वि नेमिरेषामुरां न धूनुते वृकः दिवो अमुष्य शासतो दिवं यय दिवावसो
आ त्वा ग्रावा वदनीह सोमी घोषेण वक्षतु दिवो अमुष्य शासतो दिवं यय दिवावसो
पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः
ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत
असृग्रं देववीतये वाजयन्तो रथा इव
अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्रमन्मभिः परिज्मानमिव द्यां होतारं चर्षणीनाम् शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् निष्षहमाणो यमते नायते धन्वासहा नायते
नवम द्वितीयो ऽर्धः अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो बृहद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे
ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः
इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुम्
इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिम्
ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा
प्र सो अग्ने तवोतिभिः सुविराभिस्तरति वाजकर्मभिः यस्य त्वं सख्यमाविथ