स मर्मृजान आयुभिरिभो राजेव सुव्रतः श्येनो न वंसु षीदति
स नो विश्वा दिवो वसूतो पृथिव्या अधि पुनान इन्दवा भर
नवम प्रथमो ऽर्धः प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा देवां अनु प्रभूषतः
सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ज्योतिर्जज्ञानमुक्थ्यम्
सुषहा सोम तानि ते पुनानाय प्रभूवसो वर्धा समुद्रमुक्थ्यम्
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे
त्वामिच्छवसस्पते यन्ति गिरो न संयतः
वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः
आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम्
तुविशुष्म तुविक्रतो शचीवो विश्वया मते आ पप्राथ महित्वना
यस्य ते महिना महः परि ज्मायन्तमीयतुः हस्ता वज्रं हिरण्ययम्
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्व सूरो न रुरुक्वाञ्छतात्मा
अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचनो अस्थात् होता यजिष्ठो अपां सधस्थे
अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या मर्तो यो अस्मै सुतुको ददाश
अग्ने तमद्याष्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृषम् ऋध्यामा त ओहैः
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः रथीरृतस्य बृहतो बभूथ
एभिर्नो अर्कैर्भवा नो अर्वाङ्क्स्वार्ण ज्योतिः अग्ने विश्वेभिः सुमना अनीकैः
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः
जुष्टो हि दूतो असि हव्यवाहनो ऽग्ने रथीरध्वराणाम् सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत्
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता
ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः
अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः उत स्वराजो अश्विना
पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः त्रिषधस्थस्य जावतः
उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः प्रातर्होतेव मत्सति
बण्महां असि सूर्य बडादित्य महां असि महस्ते सतो महिमा पनिष्तम मह्ना देव महां असि
बट् सूर्य श्रवसा महां असि सत्रा देव महां असि मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम्
उप नो हरिभिः सुतं याहि मदानां पते उप नो हरिभिः सुतम्
द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः उप नो हरिभिः सुतम्
त्वं हि वृत्रहन्नेषां पाता सोमानामसि उप नो हरिभिः सुतम्