युङ्क्ष्वा हि वाजिनीवत्यश्वां अद्यारुणां उषः अथा नो विश्वा सौभगान्या वह
अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् अर्वाग्रथं समनसा नि यच्छतम्
एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी उषर्बुधो वहन्तु सोमपीतये
यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः आ न ऊर्जं वहतमश्विना युवम्
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर
अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर
सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर
महे नो अद्य बोधयोषो राये दिवित्मती यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते
या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते
सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः यो व्यौच्छः सहीयसि सत्यश्रवसि याय्ये सुजाते अश्वसूनृते
प्रति प्रियतमं रथं वृशणं वसुवाहनम् स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवम्
अत्यायातमश्विना तिरो विश्वा अहं सना दस्रा हिरण्यवर्त्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतं हवम्
आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् रुद्रा हिरण्यवर्त्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम्
अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ
अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि
यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः
इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक्
रुशाद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने
समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे
आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ
न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह दिवाभिपित्वेवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा
उता यातं संगवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान
एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावो ऽरुषीर्यन्ति मातरः
उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते
अबोध्यग्निर्ज्म उदेति सूर्यो व्यूषाश्चन्द्रा मह्यावो अर्चिषा आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक्
यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि
अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे
प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः अच्छा वाजं सहस्रिणम्
अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति हरिस्तुञ्जान आयुधा