स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा देवैरा सत्सि बर्हिषि
उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः नुदस्व याः परिस्पृधः
अया निजघ्निरोजसा रथसङ्गे धने हिते स्तवा अबिभ्युषा हृदा
अस्य व्रतानि नाधृषे पवमानस्य दूढ्या रुज यस्त्वा पृतन्यति
तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् इन्दुमिन्द्राय मत्सरम्
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः मा त्वा के चिन्नि येमुरिन्न पाशिनो ऽति धन्वेव तां इहि
वृत्रखादो वलं रुजः पुरां दर्मो अपामजः स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः
गम्भीरां उदधींरिव क्रतुं पुष्यसि गा इव प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब
मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः
त्वमङ्ग प्र शुंसिषो देवः शविष्ठ मर्त्यम् न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः
मा ते राधांसि मा त ऊतयो वसो ऽस्मान्कदा चना दभन् विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ
प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः दिवो अदर्शि दुहिता
अश्वेव चित्रारुषी माता गवामृतावरी सखा भूदश्विनोरुषाः
उत सखास्यश्विनोरुत माता गवामसि उतोषो वस्व ईशिषे
एषो उषा अपूर्व्य व्युच्छति प्रिया दिवः स्तुषे वामश्विना बृहत्
या दस्रा सिन्धुमातरा मनोतरा रयीणाम् धिया देवा वसुविदा
वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि यद्वां रथो विभिष्पतात्
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति येन तोकं च तनयं च धामहे
उषो अद्येह गोमत्यश्वावति विभावरि रेवदस्मे व्युच्छ सूनृतावति
युङ्क्ष्वा हि वाजिनीवत्यश्वां अद्यारुणां उषः अथा नो विश्वा सौभगान्या वह
अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् अर्वाग्रथं समनसा नि यच्छतम्
एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी उषर्बुधो वहन्तु सोमपीतये
यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः आ न ऊर्जं वहतमश्विना युवम्
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर
अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर
सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर
महे नो अद्य बोधयोषो राये दिवित्मती यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते
या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते
सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः यो व्यौच्छः सहीयसि सत्यश्रवसि याय्ये सुजाते अश्वसूनृते