सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् सनिं मेधामयासिषम्
ये ते पन्था अधो दिवो येभिर्व्यश्वमैरयः उत श्रोषन्तु नो भुवः
भद्रंभद्रं न आ भरेषमूर्जं शतक्रतो यदिन्द्र मृडयासि नः
अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः उत स्वराजो अश्विना
ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते वन्वानासः सुवीर्यम्
न कि देवा इनीमसि न क्या योपयामसि मन्त्रश्रुत्यं चरामसि
दोषो आगाद्बृहद्गाय द्युमद्गामन्नाथर्वण स्तुहि देवं सवितारम्
एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः स्तुषे वामश्विना बृहत्
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः जघान नवतीर्नव
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः महां अभिष्टिरोजसा
आ तू न इन्द्र गहि महान्महीभिरूतिभिः
ओजस्तदस्य तित्विष उभे यत्समवर्तयत् इन्द्रश्चर्मेव रोदसी
अयमु ते समतसि कपोत इव गर्भधिम् वचस्तच्चिन्न ओहसे
वात आ वातु बेषजं शम्भु मयोभु नो हृदे प्र न अयूंषि तारिषत्
यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा न किः स दभ्यते जनः
गव्यो षु णो यथा पुराश्वयोत रथया वरिवस्या महोनाम्
इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् एनामृतस्य पिप्युषीः
अया धिया च गव्यया पुरुणामन्पुरुष्टुत यत्सोमेसोम आभुवः
पावका नः सरस्वती वाजेभिर्वाजिनीवती यज्ञं वष्टु धियावसुः
क इमं नाहुषीष्वा इन्द्रं सोमस्य तर्पयात् स नो वसून्या भरात्
आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् एदं बर्हिः सदो मम
महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः दुराधर्षं वरुणस्य
त्वावतः पुरूवसो वयमिन्द्र प्रणेतः स्मसि स्थातर्हरीणाम्
तृतीय प्रथमो ऽर्धः उत्त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः अव ब्रह्मद्विषो जहि
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे इन्द्र त्वादातमिद्यशः
सदा व इन्द्रश्चर्कृषदा उपो नु स सपर्यन् न देवो वृतः शूर इन्द्रः
आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः न त्वामिन्द्राति रिच्यते
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः इन्द्रं वाणीरनूषत
इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् वाजी ददातु वाजिनम्
इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् स हि स्थिरो विचर्षणिः