मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता
एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः एवा हि वीर स्तवते सदावृधः
इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिम् उदानंश शवसा न भन्दना
तं वो वाजानां पतिमहूमहि श्रवस्यवः अप्रायुभिर्ज्ञेभिर्वावृधेन्यम्
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे देवत्रा हव्यमूहिषे
विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम् अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम्
आ सोम सवानो अद्रिभिस्तिरो वाराण्यव्यया जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे
स मामृजे तिरो अण्वानि मेष्यो मीड्वान्त्सप्तिर्न वाजयुः अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः
वयमेनमिदा ह्यो ऽपीपेमेह वज्रिणम् तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते
वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः तद्वां चेति प्र वीर्यम्
इन्द्राग्नी अपसस्परि उप प्र यन्ति धीतयः ऋतस्य पथ्या अनु
इन्द्राग्नी तविषाणि वाम् सधस्थानि प्रयांसि च युवोरप्तूर्यं हितम्
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्रयन्धसः
दाना मृगो न वारणः पुरुत्रा चरथं दधे न किष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा
य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्
पवमाना असृक्षत सोमाः शुक्रास इन्दवः अभि विश्वानि काव्या
पवमाना दिवस्पर्यन्तरिक्षादसृक्षत पृथिव्या अधि सानवि
पवमानास आशवः शुभ्रा असृग्रमिन्दवः घ्नन्तो विश्वा अप द्विषः
तोशा वृत्रहणा हुवे सजित्वानापराजिता इन्द्राग्नी वाजसातमा
प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः इन्द्राग्नी इष आ वृणे
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् साकमेकेन कर्मणा
उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत अग्ने ससृज्महे गिरः
उप च्छायामिव घृणेरगन्म शर्म ते वयम् अग्ने हिरण्यसन्दृशः
य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः अग्ने पुरो रुरोजिथ
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् अजस्रं घर्ममीमहे
य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन् ऋतूनुत्सृजते वशी
अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य सभ्राडेको वि राजति
आष्टम तृतीयो ऽर्धः अग्निः प्रत्नेन जन्मना शुम्भानस्तन्वां स्वाम् कविर्विप्रेण ववृधे
ऊर्ज्जो नपातमा हुवे ऽग्निं पावकशोचिषम् अस्मिन्यज्ञे स्वध्वरे